SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१६ भीशारीरकमीमांसाभाचे न्तरात्मविषया कहोलेनापि कार्या,तथाऽशनायाद्यतीतत्वबुद्धिरुषतेनापि कार्या। विशिषन्ति भयत्रापि याज्ञवल्क्यवचनान्येकं सर्वान्तरमेवोपास्यम् । इतरवत् -यथेतरत्र सद्विद्यायां सर्वाणि प्रतिवचनानि परमकारणपरब्रह्मविषयाणितइत् ॥ ३६॥ - सद्विद्यायामप्युपास्यैक्यं प्रश्नप्रतिवचनावृत्ती सस्यां कथमवगम्वत इत्य सैव हि सत्यादयः ॥ १"सेयं देवतैक्षत" इत्यादिषु सर्वत्र सैव परा देवतैकाऽनुवर्तते । २"ऐतदात्म्यमिदं सर्व तत्सत्यं स आत्मा तत्त्वमसि” इति त एव सत्यादयः सर्वेषु प्रतिवचनेषूपसंहियन्ते ॥३७॥ इति वेदान्तदीपे अन्तरत्वाधिकरणम् ॥ १५॥ - श्रीशारीरकमीमांसाभाष्ये कामाद्यधिकरणम् ।। १६॥)-m कामादीतरत्र तत्र चायतनादिभ्यः।३।३॥३८॥ छान्दोग्ये श्रूयते ३ "अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तर आकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यम्"इत्यादिः वाजसनेयके च ४“स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु य एषोऽन्तहृदय आकाशस्तस्मिञ्च्छेते सर्वस्य वशी सर्वस्येशानः" इत्यादि। तत्र संशयः-किमनयोर्विद्याभेदः, उत नेति। किं युक्तम्? भेद इति । कुतः? रूपभेदात् ; अपहतपाप्मत्वादिगुणाष्टकविशिष्ट आकाशः छान्दोग्ये उपास्यः प्रतीयते ; वाजनेयके त्वाकाशे शयानो वशित्वादिगुणशिष्ट उपास्यः प्रतीयते । अतो रूपभेदाद्विद्याभेदः ---(सिद्धान्तः)--- इति प्राप्त प्रचक्ष्महे-न भेद इति । कुतः १ रूपाभेदाव-इतर १. छा. ६-३-२ ।।-२. छा. ६-८-७ ।।-३. छा. ८-१-१॥-४. १.६४-११॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy