SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra पा० ३.] www.kobatirth.org तत्राह- अन्तरत्वाधिकरणम्. ३१३ तत्रापि प्रश्नप्रतिवचनभेदे सति कथमैक्यमवगम्यत इति चेत् Acharya Shri Kailassagarsuri Gyanmandir सैव हि सत्यादयः । ३ । ३ । ३७ ॥ सैव हि — सच्छन्दाभिहिता परमकारणभूता परा देवतैव १ "सेयं देवतैक्षत" तेजः परस्यां देवतायाम्" इति प्रकृता ३" यथा सोम्य मधु मधुकृतो निस्तिष्ठन्ति " इत्यादिषु पर्यायेषु सर्वेषूपपाद्यते । यतः ४" ऐतदात्म्यमिदं सर्वे तत्सत्यं स आत्मा" इति प्रथमपर्यायोदितास्सत्यादयस्सर्वेषु पर्यायेषूपपाद्योपसंहियन्ते ॥ केचित्तु - 'व्यतिहारो विशिषन्ति हीतरवत्' 'सैवहितसत्यादयः' इति सूत्रद्वयमधिकरणद्वयं वर्णयन्ति । तत्र पूर्वेण ५" त्वं वाऽहमस्मि भवो देवते अहं वै त्वमसि भगवो देवते तद्योऽहं सोऽसौ योऽसौ सोऽहम्" इति वाक्ये जीवपरयोर्व्यतिहारानुसन्धानं प्रतिपाद्यत इत्युच्यत इत्याहु:; तत् ६" सर्वे खल्विदं ब्रह्म" " ऐतदात्म्यमिदं सर्वम्" ७"तस्वमसि " इत्यवगत सर्वात्मभावविषयत्वादस्य वाक्यस्य नात्र प्रतिपादनीयमपूर्वमस्तीत्यनादरणीयम् । तत्तु वक्ष्यते - " आत्मेति तूपगच्छन्ति ग्राहयन्ति च " इति । नच सर्वात्मत्वानुसन्धानातिरेकेण परस्मिन् ब्रह्मणि जीवत्वानुसन्धानम्, जीवे च परब्रह्मत्वानुसन्धानं, तथ्यं सम्भवति । उत्तरेण च सूत्रेण ९" स यो हवै तन्महद्यक्षं प्रथमजं वेद सत्यं ब्रह्म" इत्यादिवाक्यप्रतिपादितस्य सत्योपासनस्य १० " तद्यत्सत्यमसौ स आदित्यो य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षिन्" इत्यादिवाक्यप्रतिपादितोपासनस्य चैक्यं प्रतिपाद्यत इति ; तदप्ययुक्तम्, १. छा. ६-३-२ ॥ -२. छा. ६-८-६॥३. छा. ६-९-१॥ ४. छा. ६-८-७॥ ॥ -- ६. छा. ३-१४-१ ॥ - ७. छा. ६-१६-३ ॥८. शारी. ४-१-३ ॥ - ९. बु. ७-४-१-१०. बृ. ७-५-१ ॥ *40 For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy