SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीशारीरकमीमांसाभाष्ये [अ. २. १"तयोरन्यः पिप्पलं स्वात्ति" २"अनीशश्चात्मा बध्यते भोक्तभावात्" ३"अनीशया शोचति मुह्यमानः" इत्येकस्मिन्नेव वस्तुन्येषां परस्परविरुद्धानां प्रसक्तेः । अथोच्येत-चिदचिद्वस्तुशरीरकस्य परस्यैव ब्रह्मणः कार्यकारणभावाच्छरीरभूतचिदचिद्वस्तुगतत्वाच दोषाणाम् , न शरीरिणि ब्रह्मणि कार्यावस्थे कारणावस्थे च प्रसङ्गः-इति । तदयुक्तम्, जगब्रह्मणोश्शरीरशरीरिभावस्यैवासम्भवात्, सम्भवे च ब्रह्मणि शरीरसम्बन्धनिबन्धनदोषाणामनिवार्यत्वात् । न हि चिदचिद्वस्तुनोब्रह्मणश्शरीरत्वं सम्भवति,शरीरं हि नाम कर्मफलरूपसुखदुःखभोगसाधनभूतेन्द्रियाश्रयः पञ्चवृत्तिप्राणाधीनधारणः पृथिव्यादिभूतसङ्घातविशेषः, तथाविधस्यैव लोकवेदयोश्शरीरत्वप्रसिद्धेः । परमात्मनश्च ४" अपहतपाप्मा विजरः" १" अनश्ननन्यो अभिचाकशीति" ५“अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुस्स शृणोत्यकर्णः" ६"अमाणो ह्यमनाः" इत्यादिभिः कर्मतत्फलभोगयोरभावादिन्द्रियाधीनभोगत्वाभावात्माणवत्त्वाभावाच न तं प्रति चेतनाचेतनयोश्शरीरत्वम् । नचाचेतनव्यष्टिरूपतृणकाष्ठादीनां समष्टिरूपस्य भूतसूक्ष्मस्य चेन्द्रियाश्रयत्वादि सम्भवति । भूतसूक्ष्मस्य पृथिव्यादिसङ्घातत्वं च न विद्यते । चेतनस्य तु ज्ञानेकाकारस्य सर्वमेतन्न सम्भवतीति नतरां शरीरत्वसम्भवः । नच भोगायतनत्वं शरीरत्वमिति शरीरत्वसम्भवः,भोगायतनेषु वेश्मादिषु शरीरत्वापसिद्धेः यत्र वर्तमानस्यैव सुखदुःखोपभोगः, तदेव भोगायतनमितिचेन्न, परकायप्रवेशजन्मसुखदुःखोपभोगायतनस्य परकायस्य प्रविष्टशरीरत्वाप्रसिद्धेः ईश्वरस्य तु खतस्सिद्धनित्यनिरतिशयानन्दस्य भोग प्रति चिदचितोरायतनत्वनियमो न सम्भवति । एतेन भोगसाधनमात्रस्य श ४. छा. ८-१-५॥ २. श्वे. १-८॥ ५. श्वे. ३-१९ ॥ ३. मु. ३-१-२॥ ६. मु. २-१-२॥ १.मु.३.१-१ ॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy