SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. ३.] मनियमाधिकरणम् ३०३ पदेहान्तरसंयोगः, पुत्रजन्मविपत्त्यादिषु सुखदुःखानुभवोऽपि दृश्यते-इत्याशथाह__यावदधिकारमवस्थितिराधिकारिकाणाम्।।येषां शानिनां देहपाता. दनन्तरमर्चिरादिका गतिः प्राप्ता ; तेषां देहपाता तरितव्यकर्मफलभोगाभावाहेहपातसमय एव सर्वकर्मक्षब उक्तः । वसिष्ठादीनान्तु आधिकारिकाणां यावदधिकारसमाप्ति नाचिरादिका गतिरस्ति ; अपित्वधिकारेऽवसितिरेव, अधिकारहेतुभूतकर्मणः फलदानायारब्धत्वात् । शानिनोऽप्यारब्धं हि कर्म फलानुभवेनैव क्षीयते ॥३१॥ इति वेदान्तदीपे साम्परायाधिकरणम् ॥ १२ ॥ -n(श्रीशारीरकमीमांसाभाष्ये अनियमाधिकरणम् ॥ १३ ॥)..अनियमस्सर्वेषामविरोधश्शब्दानुमानाभ्याम् । ३।३।३२॥ ___ उपकोसलादिषु येपासनेष्वर्चिरादिगतिः श्रूयते ; किं तमिष्ठानामेव तया ब्रह्ममाप्तिः, उत सर्वेषां ब्रह्मोपासननिष्ठानामिति संशये। इतरेष्वनाम्नानात् , १"ये चेमेऽरण्ये श्रद्धा तप इत्युपासते" २"श्रद्धा सत्यमुपासते" इतीतरसकलब्रह्मविद्योपस्थापकत्वे प्रमाणाभावाच तमिष्ठानामेव (सिद्धान्तः)--- इति प्राप्तेऽभिधीयते-अनियमः-इति । सर्वेषां-सर्वोपासननिष्ठानां तयैव गन्तव्यत्वात् तनिष्ठानामेवेति नियमो नास्ति । सर्वेषां तयैव गमने हि सति शब्दानुमानाभ्यां-श्रुतिस्मृतिभ्यामविरोधः, अन्यथा विरोध एवेत्यर्थः । श्रुतिस्तावत् छान्दोग्यवाजसनेयकयोः पधाग्निविद्यायामचिरादिमार्गेण सर्वब्रह्मोपासननिष्ठानां गमनमाह २"य छा. ५-१०-१ ॥-२. स. ८-२१५॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy