________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीशारीरकमीमांसाभावे
[म. २. विशेषानुगतिभ्यां-विशेषः-विशेषणम् , देवताशब्देन विशेष्य पृथिव्यादयोऽभिधीयन्ते , १"हन्ताऽहमिमास्तिस्रो देवताः" इति तेजोऽबन्नानि देवताशब्देन विशेष्यन्ते, २" सर्वा हवै देवता अहंश्रेयसे विवदमानाः" २"ते देवाः प्राणे निःश्रेयसं विदित्वा" इति च; अनुगतिः-अनुप्रवेशः ३"अग्निर्वाग्भूत्वा मुखं प्राविशत् । आदित्यश्चक्षुर्भूत्वाऽक्षिणी प्राविशत् । वायुः प्राणो भूत्वा नासिके प्राविशत्" इत्यादिना वागायभिमानित्वेनाग्न्यादीनामनुप्रवेशश्श्रूयते । अतो जगतोऽचेतनेत्वेन विलक्षणत्वाद्ब्रह्मकार्यत्वानुपपत्तेस्तानुगृहीतस्मृत्यनुरोधेन जगतः प्रधानोपादानत्वं वेदान्तैः प्रतिपाद्यते इति ॥ ५॥
---(सिद्धान्तः) . एवं प्राप्तेऽभिधीयते
दृश्यते तु।२।१।६॥ तुशब्दात्पक्षो विपरिवर्तते ; यदुक्तं-जगतो ब्रह्मविलक्षणत्वेन ब्रह्मोपादानत्वं न सम्भवति-इति । तदयुक्तम् , विलक्षणयोरपि कार्यकारणभावदर्शनात् । दृश्यते हि माक्षिकादेविलक्षणस्य क्रिम्यादेस्तस्मादुत्पत्तिः । ननूक्तमचेतनांश एव कार्यकारणभावात्तत्र सालक्षण्यम् । सत्यमुक्तम् , न तावता कार्यकारणयोर्भवदभिमतसालक्षण्यसिद्धिः यथा कथञ्चित्सालक्षण्ये सर्वस्य सर्वसालक्षण्येन सर्वस्मात्सर्वोत्पत्तिप्रसङ्गभयादस्तुनो वस्त्वन्तराड्यावृत्तिहेतुभूतस्याकारस्यानुवृत्तिस्सालक्षण्यं भवताऽभ्युपेतम् । स तु नियमो माक्षिकादिभ्यः क्रिम्याद्युत्पत्तौ न दृश्यत इति ब्रह्मविलक्षणस्यापि जगतो ब्रह्मकार्यत्वं नानुपपन्नम् । नहि मृद्धिरण्य
३. ऐतरेय. १-२-४॥ २. कौषी. २.९॥
१. छा. ६-३-२॥
For Private And Personal Use Only