SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २८२ वेदान्तसारे [अ. ३. मन्यन्ते" १" तस्मादेवंविदशिष्यन्नाचामेदशित्वा चाचामेदेतमेव तदनमनग्नं कुरुते" इति । तत्र संशयः - किमत्राचमनं विधीयते, उतापां प्राणवासस्त्वानुसन्धानमिति । १" अशिष्यन्नाचामेदशित्वा चाचामेत्" इत्याचमने विधिप्रत्ययश्रवणात्, १ " एतमेव तदनमननं कुरुते " इति वेदने विधिप्रत्ययाभावादनग्रता सङ्कीर्तनस्य स्तुत्यर्थतयाऽन्वयोपपत्तेश्व, भोजनाङ्गस्याचमनस्य स्मृत्याचारप्राप्तत्वेन विधिप्रत्ययबलात्प्राणविद्याङ्गमाचमनान्तरं विधीयते— - ( सिद्धान्तः इति प्राप्ते ब्रूमः - आचमनीयानामपां प्राणस्य वासस्त्वानुसन्धानमेवेह अपूर्वम्- अप्राप्तं विधीयते, कार्याख्यानात् - अप्राप्ताख्यानात्, अमासाख्याने शब्दस्यार्थवत्त्वादित्यर्थः । एतदुक्तं भवति - २" किं मे वासः " २" आपो वासः " ३" अद्भिः परिदधति" "एतमेव तदनमननं कुरुते " इत्युपक्रमोपसंहारयोर्वाक्यस्यापां प्राणवासोदृष्टिपरत्वप्रतीतेराचमनस्य स्मृत्याचारप्राप्तत्वादाचमनमनूद्याचमनीयास्वप्सु प्राणवासस्त्वानुसन्धानं विधीयते इति । अत एव च्छान्दोग्ये ३" तस्माद्वा एतदशिष्यन्तः पुरस्ताचोपरिष्टाच्चाद्भिः परिदधति" इत्यद्भिः परिधानमेवोक्तम् ; नाचमनम् || इति श्रीशारीरकमीमांसाभाष्ये कार्याख्यानाधिकरणम् ॥ ५ ॥ " Acharya Shri Kailassagarsuri Gyanmandir वेदान्तसारे — कार्याख्यानादपूर्वम् ॥ ४" यो ह वै ज्येष्ठश्च श्रेष्ठश्च वेद " इति प्राणविद्यां विधाय अपां प्राणवासस्त्वमुक्त्वा १" तस्मादेवंविदशियन्नाचामेदशित्वा चाचामेदेतमेव तदनमननं कुरुते " इत्याचमनस्य सदाचाप्राप्तत्वादाचमनमनूद्य आचमनीयानामपां प्राणवासस्त्वानुसन्धानमप्राप्तं वि. श्रीयते इति युक्तम् अप्राप्तस्यैव विधेयतया ख्यापनात्। अत्रानुवादसरूपो वि. * १ ॥ २. बृ. ८-१-१४ ॥ -३. छा. ५-२-२ ॥ ४ . ८-१-१ ॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy