SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५७ पा. २.] फलाधिकरणम्. यो गृह्यन्ते। अतः १" यतो वा इमानि" इत्यादिनाऽवगतजगन्निमित्तोपादानकारणाब्रह्मणोऽन्यत्परं न विद्यते ॥ ३६॥ इति वेदान्तदीपे पराधिकरणम् ।। ७ ।। --(श्रीशारीरकमीमांसाभाष्ये फलाधिकरणम् ॥ ८॥) . फलमत उपपत्तेः । ३।२।३७॥ उक्तमुपासिसिषोपजननार्थ जीवस्य सर्वावस्थासु सदोषत्वं, प्राप्यस्य च परमपुरुषस्य निर्दोषत्वं, कल्याणगुणाकरत्वं, सर्वस्मात्परत्वञ्च; अतः परमुपासनं विवक्षन्नुपासीनानां परस्मादेवास्मात्पुरुषात्तत्माप्तिरूपमपवर्गाख्यं फलमिति सम्पति ब्रूते । तुल्यन्यायतया शास्त्रीयमैहिकामुष्मिकमपि फलम् अत एव परस्मात्पुरुषाद्भवतीति सामान्येन ‘फलमतः' इत्युच्यते। कुत एतत्? उपपत्तेः स एव हि सर्वज्ञस्सर्वशक्तिमहोदारो यागदा. नहोमादिभिरुपासनेन चाराधित ऐहिकामुष्मिकभोगजातं स्वस्वरूपावाप्तिरूपमपवर्ग च दातुमीष्टे नह्यचेतनं कर्म क्षणध्वंसि कालान्तरभाविफलसाधनं भवितुमर्हति ॥ ३७ ।।। श्रुतत्वाच्च । ३।२। ३८॥ २"स वा एष महानज आत्माऽन्नादो वसुदानः" ३"एष ह्येवानन्दयाति" इति भोगापवर्गरूपं फलमयमेव ददातीतिहि श्रूयते ॥ ३८ ॥ सम्पति पूर्वपक्षमाहधर्म जैमिनिरत एव । ३।२।३९॥ अत एव-उपपत्तेः,शास्त्राच यागदानहोमोपासनरूपधर्ममेव फलपदं जैमिनिराच्यार्यों मन्यते । लोके हि कृष्यादिकर्म, दानादिकं च कर्म सा१. ते. भृगु. १.अनु ॥-२.बु. ६-४-२४ ॥-३. ते. आनं. ७-१ ॥ *33 For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy