SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५१ पा. २.] पराधिकरणम्. ब्रह्म"इत्यादिभिर्जगत्कारणस्य ब्रह्मणोऽपरिच्छिन्नत्वावगमात्स्वत उन्मितत्वासम्भवात्।जगत्कारणत्वं हि तस्यैव श्रूयते-१"तस्माद्वा एतस्मादात्मन आकाशस्सम्भूतः" २ "सोऽकामयत बहु स्यां प्रजायेयेति" इति । अतो यथा ३"वाक्पादः प्राणः पादः चक्षुः पादो मनः पादः" इत्यादिना ब्रमणो वागादिपादव्यपदेश उपासनार्थः; एवमयमपि ॥ ३२ ॥ स्वयमनुन्मितस्य कथमुपासनार्थतयाऽप्युन्मानसम्भवः तत्राहस्थानविशेषात्प्रकाशादिवत् । ३।२। ३३ ॥ प्रतिपन्नवागादिस्थानविशेषरूपोपाधिभेदात्तत्सम्बन्धितयोन्मितस्वानुसन्धान सम्भवतिः यथा प्रकाशाकाशादेविततस्य वातायनघटादिस्थानभेदैः परिच्छिद्यानुसन्धानसम्भव इत्यर्थः ॥ ३३ ॥ उपपत्तेश्च । ३।२।३४॥ यदुक्तम्-४"अमृतस्यैषसेतुः" इति प्राप्यमापकसम्बन्धव्यपदेशात्मापकात्परं प्राप्यमस्तीति; तन्न,माप्यस्य परमपुरुषस्य स्वप्राप्तौ स्वस्यैवोपायत्वोपपत्तेः। ५"नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन। यमैवष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम्" इत्यनन्योपायत्वश्रवणात् ॥ ३५॥ तथाऽन्यप्रतिषेधात्। ३।२।३५॥ यत्पुनरुक्तं-६"ततो यदुत्तरतरं" ७"परात्परं पुरुषम्" ८"अक्षरात्परतः परः" इत्यादिभेदव्यपदेशात्परात्परमस्तीति-तन्नोपपद्यते, तवैव ततोऽन्यस्य परस्य प्रतिषेधात्, ९"यस्मात्परं नापरमस्ति किञ्चिद्यस्मानाणीयो न ज्यायोऽस्ति कश्चित्" इति । यस्मादपरं परं नास्ति कि १. ते. आनं १. अनु. २ ॥ ---२. ते. आनं ६, अनु. २ ॥ -३ छा, ३.१८-२॥ -४. मु. २. २-५॥ -५. मु. ३.२ ३ ॥-६. श्वे. ३. अ. १० ॥---७. मु. ३ २-८॥-८, मु. २.१.२॥-९. श्वे. ३-९ ॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy