SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] स्मत्यधिकरणम्. भ्रान्तिमूलेति न तया यथोक्तो वेदान्तार्थश्चालयितुं शक्य इति सि. दम् ॥ २॥ इति श्रीशारीरकमीमांसाभाध्ये स्मृत्यधिकरणम् ॥ १ ॥ वेदान्तसारे-स्मृत्यनवकाशदोषप्रसङ्ग इतिचेनान्यस्मृत्यनवकाशदोषप्रसङ्गात् ।। उपबृंहणापेक्षे वेदान्तार्थनिणेये सति, कपिलस्मृत्युपबृंहणेन वेदान्तार्थः प्रधानकारणवाद इत्यनभ्युपगमे, कपिलस्मृतेरुपबृंहणानन्वयेनानवकाशदोषप्रसक्तिरितिचेत् न, अन्यासां वेदाविरोधिनीनां बहीनाम्मन्वादिस्सतीनामनवकाशप्रसक्तेः,वेदस्योपबृंहणापेक्षत्वेऽपि अनन्यपराविरुद्धानेकस्मृतिषु सतीषु, विरुद्धार्थायाः वेदोदितार्थविशदीकरणत्वाभावेन तस्या उपबृंहणत्वमन्याय्यमित्यर्थः ॥१॥ योगीन्द्र कपिलस्य तथाऽनुपलब्धेः कथं स्मृत्यन्तरमेतन्न्याय्यमितिचेत तत्राह इतरेषाश्चानुपलब्धेः ॥ वेदार्थसाक्षात्कारचतुरमन्वादियोगीन्द्राणां कपिलदृष्टार्थानुपलब्धेः कपिलोपलब्धिर्भम एव ॥ २॥ इति वेदान्तसारे स्मृत्यधिकरणम् ॥ १ ॥ वेदान्तदीपे-स्मृत्यनवकाशदोषप्रसङ्ग इति चेनान्यस्मृत्यनवकाशदोषप्रसङ्गात् ॥ वेदान्तानां समस्तचिदचिद्वस्तुविलक्षणास्पृष्टहेयगन्धसर्वक्षताद्यनन्तकल्यागगुणाकरब्रह्मैकपरत्वं प्रतिपादितं,कापिलस्मृतिविरोधेन चालयितुं शक्यम्, उतनेति संशयः । शक्यमिति पूर्वः पक्षः, श्रुतिविरुद्धायाः स्मृ. तेरनादरणीयत्वे स्थितेऽपि वेदान्तवेद्यार्थस्य दुर्ग्रहत्वेन अल्पश्रुतैर्मन्दमतिभिराप्तप्रणीतस्मृत्युपबृंहणेन विना तेषां निश्चयो नोपपद्यते । कपिलस्मृतिः केवलतत्वपरेति तयैव ह्युपबृंहणं न्याय्यम् । अन्यथा आप्तप्रणीतायाः केवलतत्त्वपरायाः अस्या अनवकाशप्रसङ्गति वेदान्तवेद्यं जगत्कारणं प्रधानम् । राद्धान्तस्तु - वेदान्तस्योपबृंहणापेक्षत्वेऽप्याप्ततममन्वादिस्मृतिभिर्वेदान्ताविरोधिनीभि । रेवोपबृंहणं न्याय्यम् , अन्यथा तासां बह्वीनामनवकाशप्रसङ्गो महानयं दोषस्यात् । नच तासां धर्मप्रतिपादनांशोपबृहणत्वेन सावकाशत्वम् , यतो ध. For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy