SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. २. ] उभयलिङ्गाधिकरणम् २३७ शेषत्वं न प्रतिषिध्यते ; अपि तु पूर्वप्रकृतेयत्तामात्रम् । अत उभयलिङ्ग मेव परं ब्रह्म ॥ २१ ॥ ब्रह्मणः प्रमाणान्तरागोचरत्वेन तत्सम्बन्धितया मूर्तीमूर्तादिरूपाजुवादेन तनिषेधासम्भवात्प्रकृतेयत्ताप्रतिषेध उक्तः ; तदेव प्रमाणान्त रागोचरत्वं द्रढयति तदव्यक्तमाह हि । ३ । २ । २२ ॥ " तत् - ब्रह्म प्रमाणान्तरेण न व्यज्यते, आह हि शास्त्र १" न सन्दृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम् ” २" न चक्षुषा गृह्यते नापि वाचा " इत्यादि ॥ हेत्वन्तरं चाह - अपि संराधने प्रत्यक्षानुमानाभ्याम् । ३।२।२३॥ अपि च संराधने - सम्यक्प्रीणने भक्तिरूपापभे निदिध्यासन एवास्य साक्षात्कारः ; नान्यत्रेति श्रुतिस्मृतिभ्यामवगम्यते । ३" नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनुं स्वाम् २" ज्ञानप्रसादेन विशुद्धसत्वस्वतस्तु तं पश्यति निष्कलं ध्यायमानः" इति श्रुतिः । स्मृतिरपि ४" नाहं वेदैर्न तपसा न दानेन न चेज्यया " ४" भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टं च परन्तप" इति । भक्तिरूपापन्नमेवोपासनं संराधनम् - तस्य प्रीणनमिति पूर्वमेवोक्तम्। अतो निदिध्यासनाय ब्रह्मस्वरूपमुपदिशत् ५ " द्वे वाव ब्रह्मणः" इत्यादि १. तै. नारा. १. अनु. १० ॥ २. मु. ३-१८ ॥ - ३. मु. ३-२-३ ॥ --४. गी. ११-५३, ५४ ॥ --- ५. बृ. ४-३-१ ॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy