SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३३ पा. २.] उभयलिङ्गाधिकरणम् . दर्शयति चाथो अपि स्मर्यते । ३॥ २॥ १७॥ दर्शयति च वेदान्तगणः कल्याणगुणाकरत्वं निरस्तनिखिलदोषत्वं च १"तमीश्वराणां परमं महेश्वरं तं दैवतानां परमं च दैवतम् । स कारणं करणाधिपाधिपो न चास्य कश्चिजनिता नचाधिपः । न तस्य कार्य करणं च विद्यते न तत्समचाभ्यधिकश्च दृश्यते । पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च"२ “यस्सर्वज्ञस्सर्ववित् यस्य ज्ञानमयं तपः" ३"भीषाऽस्माद्वातः पवते भीषोदेति सूर्यः" ३ "स एको ब्रह्मण आनन्दः" ४"यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चनेति ५ "निष्कलं निष्क्रिय शान्तं निरवचं निरञ्जनम्" इत्यादि । स्मर्यते च ६“यो मामजमनादिं च वेत्ति लोकमहेश्वरम्" "विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्" ८"मयाऽध्यक्षेण प्रकृतिस्सूयते सचराचरम् । हेतुनाऽनेन कौन्तेय जगद्धि परिवर्तते" ९"उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः" १०"सर्वज्ञस्सर्वकृत्सर्वशक्तिज्ञानवलधिमान् । अन्यूनचाप्यवृद्धिश्च स्वाधीनो नादिमान्वशी। कमतन्द्रीभयक्रोधकामादिभिरसंयुतः । निरवद्यः परः प्राप्तेर्निरधिष्ठोऽक्षरः क्रमः"इत्यादिः। अतस्सवत्रावस्थितस्यापि ब्रह्मण उभयलिङ्गत्वात्तत्तत्स्थानप्रयुक्ता दोषा न पर ब्रह्म स्पृशन्ति ॥ १७ ॥ अत एवचोपमा सूर्यकादिवत् । ३॥ २॥१८॥ __यतो नानाविधेषु स्थानेषु स्थितस्यापि परस्य ब्रह्मणो न तत्मयुक्तदोषभाक्त्वम्, अत एव जलदपणादिप्रतिबिम्बितसूर्यादिवत्परमात्मा १. श्वे. ६-७, ८ ॥-२. मु. १-१-९॥--३. ते. आ. ८-४ ॥–४. ते. आ ९-१॥- ५. श्वे. ६-१९ ॥-- ६. गी. १०.३ ॥- ७. गी. १०.४२ ॥-८, गी. ९-१० ।-९, गी. १५.१७॥-१०. वि. पु. ५-१-४७, ४८, ४९ ॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy