SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२५ श्रीशारीरकमीमांसामाग्ये [म... खाभाविकं चेजीवस्य सस्यसङ्कल्पत्वादिकम् , कथं नाभिव्यज्यत इखा शङ्कयाह पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ॥ तुशवशङ्कानिवृत्त्यर्थः; परमपुरुषाभिध्यानादस्य स्वाभाविक रूपमनादिकर्मप्रवाहेण कृतापराधतया तिरोहितम् । ततो ह्यस्य बन्धविपर्ययो-ततः परमपुरुषसङ्कल्पादेवहि,अस्य-जीवस्य, बन्धविपर्ययौ--संसारमोक्षौ भूयेते-"को ह्येवान्यात्कः प्राण्याद्यदेष आकाश आनन्दो न स्यात् एष ह्येवानन्दयाति" २"परं ज्योतिरुपसम्पद्य खेन रूपेणाभिनिष्पद्यते" इत्यादौ ॥४॥ तिरोधानप्रकारमाह देहयोगाद्वा सोऽपि ॥ सोऽपि ; तिरोधानभावः देहयोगाद्वा भवति ; पाशब्दो विकल्पार्थः, व्यवस्थितश्च विकल्पः; देवमनुष्यादिदेहाकारपरिणताचिद्योगात्सृष्टिवेलायाम् , नामरूपविभागानहसूक्ष्मदशापनाचिद्योगेन प्रलयकाले ॥५॥ सूचकश्च हि श्रुतेराचक्षते च तद्विदः॥ इतश्च खाना रथादयो न जीवसङ्कल्पकृताः; यतस्वप्नश्शुभाशुभयोस्सूचक इति श्रुतेरवगम्यते-३'यदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति । समृद्धिं तत्र जानीयात्तस्मिन् स्वप्ननिदर्शने' ४'अथ स्वप्ने पुरुषं कृष्णं कृष्णदन्तम्" इत्यादिषु । खनाध्यायविदश्चाचक्षते । जीवसङ्कल्पकृतत्वे हि सूचकत्वं न सम्भवति ; खसङ्कल्पकृतत्वे हि शुभानामेव सूचकानान् सृष्ट्वा तानेव पश्यति। अतस्वामानामर्थानां परमपुरुष एव स्रष्टा ॥६॥ इति वेदान्तदीपे सन्ध्याधिकरणम् ॥ १ ॥ --(श्रीशारीरकमीमांसाभाष्ये तदभावाधिकरणम् ॥२॥) . तदभावो नाडाषु तच्छुतेरात्मनिच ।३।२॥७॥ इदानीं सुषुप्तिस्थान परीक्ष्यते । इदमानायते ५“यत्रतत्सुप्तस्समस्तस्सम्पसनः स्वमं न विजानाति आसु तदा नाडीषु सप्तो भवति" १. ते.आन, ७-१॥-२, छा. ८-३-४॥-३. छा. ५-२.९ ॥-४॥-५.छा..-६-३॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy