SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२० भीशारीरकमीमांसामान्ये चान् कामा छन्दतः प्रार्थयख" १"शतायुषः पुत्रपौवान् वृणीष्व"इति पुवादय एव कामाः प्रकृताः। अतो रथादीन् जीवः स्वमे सृजति जीवस्य च सत्यसङ्कल्पत्वं प्रजापतिवाक्ये श्रुतम्। अत उपकरणायभावेऽपि सृष्टिरूपपयते ॥२॥ (सिद्धान्तः).--- इति प्राप्तेऽभिधीयतेमायामात्रं तु कात्स्न्येनानभिव्यक्त स्वरूपत्वात् । ३।२।३॥ तुशब्दः पक्षं व्यावर्तयति खमे रथपुष्करिण्याबर्थजातं मायामावं परमपुरुषसृष्टमित्यर्थः । मायाशब्दो याश्चर्यवाची २'अनकस्य कुले जाता देवमायेव निर्मिता" इत्यादिषु तथा दर्शनात् । अत्रापि "न तत्र रथा न रथायोगा न पन्थान:"-सकलेतरपुरुषानुभाव्यतया न भवन्तीत्यर्थः ३ "अथ रथाव्रथयोगान्पथः सृजते"-स्वमगनुभाव्यतया तत्कालमात्रावसानान् सृजत इत्याश्चर्यरूपत्वमेवाह । एवंविधाश्चर्यरूपा सृष्टिस्सत्यसङ्कल्पस्य परमपुरुषस्यैवोपपद्यते, न जीवस्य; तस्य सत्यसङ्कल्पत्वादियुक्तस्यापि संसारदशायां कात्स्न्येनानभिव्यक्तखरूपत्वान जीवस्य तथाविषाश्चर्यसृष्टिरुपपद्यते। ४"कामंकामं पुरुषो निर्मिमाणः" इति च परमपुरुषमेव निर्मातारमाह-४“य एषु सुप्तेषु जागति" ४"तदेव शुक्र तह. म तदेवामृतमुच्यते । तस्मिन् लोकाश्श्रितास्सर्वे तदु नात्येति कश्चन" इत्युपक्रमोपसंहारयोः परमपुरुषासाधारणस्वभावप्रतीतेः । ३“अथ वेशान्तान् पुष्करिण्यः सवन्त्यः सृजते स हि कर्ता" इति च तया श्रुत्यैकाात्परमपुरुषमेव कर्तारमाह ॥३॥ स्वाभाविकं चेन्जीवस्यापहतपाप्मत्वादिकम् , कुतस्तमाभिव्यज्यत इत्यत आह १.कठ १-१-२३ ॥२. श्रीरामायणे. बालकाण्डे. १-२७ ॥-३. वृ. ६-३-१०॥-४. करु, २.५.८ ॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy