SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] भन्याधिष्ठिताधिकरणम्. २१७ नभयिनां भूयमाणो यथा तयोगमात्र प्रतिपादयति । तद्दीलादिभावोऽपीत्यर्थः ॥ २६ ॥ योनेश्शरीरम् । ३। १ । २७॥ । योनिप्राप्तेः पश्चादेवानुशयिनां शरीरमाप्तिः, तलैव सुखदुःखोपभोगसद्भावात् । ततः प्रागाकाशादिप्राप्तिप्रभृति तद्योगमात्रमेवेत्यर्थः॥ इति श्रीशारीरकमीमांसाभाष्ये अन्याधिष्ठिताधिकरणम् ॥६॥ इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये तृतीयस्याध्यायस्य प्रथमः पादः॥१॥ वेदान्तसारे-अन्याधिष्ठिते पूर्ववदभिलापात् ॥ १"त इह वीहि. यवाः" इत्यादौ चान्यजीवाधिष्ठिते व्रीहियवादौ संश्लेषमात्रम्, अवरोहतः आ. काशादिग्विव जननहेतुविरहिताभिलापात् । १"जायन्ते" इति वचनमोपचारिकम् । यत्र ब्राह्मणादिजन्मास्ति, तत्र १"रमणीयचरणाः" इति हि हेतुरभि लप्यते ॥ २४॥ अशुद्धमितिचेन्न शब्दात्।। अवरोहतः पूर्वानुष्ठितयागादिषु अग्नीषो. मीयादिहिंसागर्भत्वेन अशुद्धं कर्मास्तीतिचेत्न, २ "हिरण्यशरीर ऊर्ध्वस्वर्ग लोकमेति' ३"न वा उ वेतन्नियसे न रिग्यसि" इति पशुसंझपनस्याहिंसात्वशब्दात् ॥ २५॥ रेतस्सिग्योगोऽथ ॥ "योयो ह्यन्नमत्ति यो रेतस्सियति" इति अन्नेन संसृष्टस्य रेतस्सिचा योगमात्रमनन्तरमुच्यते; अतः पूर्वमपि बीह्यादियोगमात्रम् ॥ २६ ॥ योनेश्शरीरम् ॥ योनिप्राप्तेः पश्चादेवावरोहता शरीरं प्राप्यते ॥२७॥ इति वेदान्तसारे अन्याधिष्ठिताधिकरणम् ॥ ६ ॥ इति श्रीभगवद्रामानुजविरचिते श्रीवेदान्तसारे तृतीयस्याध्यायस्य प्रथमः पादः॥१॥ १. छा. ५-१०-६, ७॥-२॥-३. यजु, ४-९-६-४६ ॥ 28 For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy