SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०६ श्रीशारीरकमीमांसाभाग्ये [म.३. केवलेष्टापूर्तदत्तकारिणश्चन्द्रमसं गत्वा सानुशया एव निवर्तन्त इत्युक्तम् । इदानीमनिष्टादिकारिणोऽपि चन्द्रमसं गच्छन्ति,नेति चिन्त्यते। ये विहितं न कुर्वन्ति, निषिद्धं च कुर्वन्ति, त उभयेऽपि पापकर्माणोsनिष्टादिकारिणः । किं युक्तम् ? तेऽपि चन्द्रमसं गच्छन्तीति ; कुतः १ ते षामपि हि तद्गमनं श्रुतं-१“ये वैकेचास्माल्लोकात्मयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति" इत्यविशेषेण सर्वेषामेव गतिश्रवणात् ॥ १२ ॥ एवं तर्हि सुकृतदुष्कृतकारिणोरुभयोरप्यविशिष्टैव गतिस्स्यात् ; नेत्याहसंयमने त्वनुभूयेतरेषामारोहावरोहौ तगति दर्शनात् । ३।१।१३॥ तुशब्दश्शङ्का व्यावर्तयति ; इतरेषाम् - अनिष्टादिकारिणां चन्द्रारोहावरोही संयमने-यमशासने तत्प्रयुक्तयातना अनुभूयैव, नान्यथा; कुतः तद्गतिदर्शनात्-दृश्यते हि पापकर्मणां यमवश्यतया तद्गमनम् २ "अयं लोको नास्ति न पर इतिमानी पुनःपुनर्वशमापद्यते मे" ३ “वैवस्वतं सङ्गमनं जनानां यमं राजानम्" इत्यादिषु ॥ १३ ॥ स्मरन्तिच । ३।१।१४॥ स्मरन्ति च सर्वेषां यमवश्यतां पराशरादयः ४ "सर्वे चैते वशं यान्ति यमस्य भगवन्किल" इत्यादिषु ॥ १४ ॥ अपि ५ । ३।१।१५॥ पापकर्मणां गन्तव्यत्वेन रौरवादीन् सप्त नरकानपि स्मरन्ति॥१५ ननु सप्तमु लोकेषु गच्छतां कथं यमसदनप्राप्तिः, अत आह१. कौषी. अ. १. २ ॥-२ ॥ ३. आरण, २. प्र. १. प ॥ --४. वि. पु. ३-७-५ ॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy