SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] कृतास्थयाधिकरणम्. २०३ चरणादितिचेन्न तदुपलक्षणार्थेति कार्णाजिनिः । ३।१।९॥ "रमणीयचरणाः" १“कपूयचरणाः" इति न चरणशब्देन पु. ण्यपापरूपं कर्माभिधीयते,चरणशब्दस्य लोकवेदयोराचारे प्रसिदेः लोकिकाः खलु चरणमाचारः शीलं वृत्तमिति पर्यायानभिमन्यन्ते ; वेदे च २"यान्यनवद्यानि कर्माणि तानि सेवितव्यानि" २"यान्यस्माकं सुचरितानि तानि त्वयोपास्यानि" इति चरणकर्मणी भेदेन व्यपदिश्यते; अतः चरणात्-शीलात् योनिविशेषप्राप्तिः, नानुशयादितिचेत्-तन्न, चरणश्रुतिः कर्मोपलक्षणार्थेति कार्णाजिनिराचार्यों मन्यते, केवलादाचारासुखदुःखप्राप्त्यसम्भवात् । सुखदुःखे हि पुण्यपापरूपकर्मफले ॥९॥ आनर्थक्यमितिचेन्न तदपेक्षत्वात्।३।१।१०॥ एवं तीफलत्वादाचारस्य स्मृतिविहितस्यानर्थक्यमेवेति चेत्-तन्त्र, तदपेक्षत्वात्पुण्यस्य कर्मणः आचारवत एव पुण्यकर्मस्खधिकारः-३"सन्ध्याहीनोऽशुचिनित्यमनहस्सर्वकर्मसु"४"आचारहीनं न पुनन्ति वेदाः" इत्यादिवचनेभ्यः । अतश्चरणश्रुतिः कर्मोपलक्षणार्थेति कार्णाजिनेरभिप्रायः ॥१०॥ सुकृतदुष्कृते एवेति तु बादरिः।३।१।११॥ 'पुण्यं कर्माचरति पापं कर्माचरति इति कर्मणि चरतेः प्रयोगात्, पृथनिर्देशस्य च प्रत्यक्षश्रुतिसिद्धाचारानुमितश्रुतिसिद्धविषयत्वेन गोबलीवर्दन्यायेनोपपत्तेः । मुख्य सम्भवति न लक्षणा न्याय्येति सुकृतदुष्क ते एव चरणशब्दाभिधेये इति बादरिराचार्यों मन्यते । अत्र बादरिमतमेव स्वमतम् । आचारानुमितश्रुतिविहितसन्ध्यावन्दनादेः कर्मान्तराधिकार १. छा, ५-१०-७ ॥–२. तै. शिक्षा. ११-२ ॥३॥-४ ॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy