SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९८ वेदान्तसारे [म. ३, न्ति एतदेवामृतं दृष्ट्वा तृप्यन्ति"इति। तस्माद्भूतसूक्ष्मैस्सम्परिष्वक्तो जीवो रंहतीति सिद्धम्॥७॥ इति श्रीशारीरकमीमांसाभाष्ये तदन्तरप्रतिपत्त्यधिकरणम् ॥ १॥ वेदान्तसारे-तदन्तरपतिपत्तौ रंहति सम्परिष्वक्तः प्रश्ननिरूपणाभ्याम् ॥ जीवो देहादेहान्तरप्राप्तौ भूतसूक्ष्मैस्संपरिग्वतो यातीति पञ्चाग्नि विद्यायां प्रश्नप्रतिवचनाभ्यामवगम्यते । १"वेत्थ यथा पञ्चम्यामाहुतावापः पु. रुषवचसो भवन्ति" इति प्रश्नः, २"इति तु पश्चम्यामाहुतावापः पुरुषवचसो भवन्ति" इति प्रतिवचनम्।३ उत्तरैस्सूत्रैरर्थोऽभिव्यज्यते । सचायमर्थ:-जी. वो ब्राह्मणादिदेहस्थः ४स्वाहादानादिकर्मकृत् तत्तत्फलभोगायास्माइहादुत्याय गच्छन् , एतद्देहस्थाभिः भूतान्तरसंखष्टाभिः सूक्ष्माकाराभिरद्भिः सम्परिवतोऽग्नित्वेन निरूपितं चुलोकं प्राप्य ताभिरेवामृतमयदेहाकारपरिणताभिराद्भिः परिग्वक्तो देवानां शेषत्वमुपगम्य तैस्सह तत्र भोगमनुभूय कर्मावसाने भुक्त शिष्टब्राह्मणादियोनिप्रापककर्मणा सह पुनरपीमं कर्मलोकमागम्य,कर्म कर्तु ताभिः परिवक्तोऽग्नित्वरूपितं पर्जन्यं प्राप्य, वर्षधाराभिस्सहाग्नित्वनिरूपितपृथिवीमुपगम्य, बाह्यादिसस्येन संयुज्य, अनाकारपरिणतेन तेन सहाग्नित्व. निरुपितं पुरुषं प्राप्य, तत्र शुक्लाकारपरिणताभिस्ताभिरद्भिः परिप्वक्तोऽग्नित्वनिरूपितां योषितं प्राप्य, तत्र गर्भाकारपरिणताभिस्ताभिरद्भिः पुरुषशब्दाभिलपनीवाभिः परिवक्तः कर्मानुरूपं ब्राह्मणादिरूपेण जायते इति ॥१॥ __ च्यात्मकत्वात्तु भूयस्त्वात् ॥ सर्वस्य त्रिवृत्करणेन घ्यात्मकत्वात् भूतान्तरसंसृष्टा एवापो भूयस्त्वेनाप्छब्देनोच्यन्ते ॥२॥ प्राणगतेथ ॥ ५"प्राणमनूकामन्तं सर्वे प्राणा अनूत्कामन्ति" इति जीवेन सहेन्द्रियगतेस्तदाश्रयत्वेन देहगमनं प्रतीयते ॥३॥ अग्नयादिगतिश्रुतेरिति चेन्न भाक्तत्वात् ॥ ६"अग्निं वागप्येति" इतीन्द्रियाणामग्नथादिगतिश्रुतेन जीवन गमनमितिचेत्न, वागाधभिमानिदेवतासु भाक्तत्वात् वागादिशब्दानाम् , ६"ओषधीोमानि" इत्यनपियद्भि. र्लोमादिभिस्सहपाठात् ॥४॥ १. छा. ५-३-३ ॥--२.छा. ५-९-१॥-३. तयोरुत्तरसूत्ररर्थोऽभि. पा ॥ -४. यागदानादि. पा ॥-५. १. ६-४-२॥--६. १. ५-२-१३॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy