SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमते रामानुजाय नमः श्रीभगवद्रामानुजविरचिते श्रीशारीरकमीमांसाभाष्ये (तृतीयाध्याये-प्रथमः पादः-तदन्तरप्रतिपत्त्यधिकरणम् ॥).. - तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूप णाभ्याम् ।३।१।१॥ अतिक्रान्ताध्यायद्वयेन निखिलजगदेककारणं निरस्तनिखिलदोपगन्धमपरिमितोदारगुणसागरं सकलेतरविलक्षणं परं ब्रह्म मुमुक्षुभिरुपास्यतया वेदान्ताः प्रतिपादयन्तीत्ययमर्थः स्मृतिन्यायविरोधपरिहारपरपक्षपतिक्षेपवेदान्तवाक्यपरस्परविरोधपरिहाररूपकार्यखरूपसंशोधनस्तदर्धर्षणत्वहेतुभिस्सह स्थापितः ; अतोऽध्यायद्वयेन ब्रह्मस्वरूपं प्रतिपादितम् । उत्तरेणेदानी तत्माप्त्युपायैस्सह प्राप्तिप्रकारश्चिन्तयितुमिज्यते । तत्र तृतीयाध्याये उपायभूतोपासनविषया चिन्ता वर्तते । उपासनारम्भाभ्यर्हितोपायश्च प्राप्यवस्तुव्यतिरिक्तवैतृष्ण्यम् , प्राप्यतृष्णाचेति; तत्सिद्धयर्थं जीवस्य लोकान्तरेषु सञ्चरतो जाग्रतस्वपतस्सुषुप्तस्य मृर्छतच दोषाः, परस्य च ब्रह्मणस्तद्रहितता, कल्याणगुणाकरत्वं च प्रथमद्वितीययोः पादयोः प्रतिपाद्यन्ते । तत्र देहादेहान्तरं गच्छन्मयं जीवो देहान्तरारम्भहेतुभिर्भूतसूक्ष्मैस्सम्परिष्वक्त एव गच्छति, उत नेति चिन्तायां यत्रयन जीवो याति; तत्रतत्र भूतसूक्ष्माणां सुलभत्वादसम्परि 25 For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy