________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८६
श्रीशारीरकमीमांसाभाष्ये
[म. २. कत्वप्रतीतेः । जीवस्य स्वांशत्वेन स्वरूपत्वेऽपि परखरूपव्यावृत्यर्थः १“अनेन जीवेन" इति पराक्त्वेन परामर्शः। अतो हिरण्यगर्भकटकेयं नामरूपव्याक्रिया । अतएव च स्मृतिषु चतुर्मुखकर्टफसृष्टिप्रकरणे ना. मरूपव्याकरणं सङ्कीर्त्यते "नामरूपं च भूतानां कृत्यानां च प्रपञ्चनम् । वेदशब्देभ्य एवादी देवादीनां चकार सः" इत्यादि ।
- सिद्धान्तः.)---- एवं प्राप्तेऽभिधीयते-संज्ञामूर्तिकृप्तिस्तु-इति । तुशन्दः पक्षं ब्यावर्तयति ; संज्ञामूर्तिकप्तिः-नामरूपव्याकरणम् ; तत्रिवृत्कुर्वतः परस्यैव ब्रह्मणः, तस्यैव नामरूपव्याकरणोपदेशात् । त्रिवृत्करणं कुर्वत एव हि नामरूपव्याकरणमुपदिश्यते-१“सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेनाऽत्मनाऽनुमविश्य नामरूपे व्याकरवाणि तासां निवृतं निवतमेकैकां करवाणि" इति समानकर्तृकत्वप्रतीतेः। त्रिवृत्करणं तु चतुर्मुखस्याण्डान्तर्वर्तिनो न सम्भवति, निवृत्कृतैस्तेजोबन्नैबण्डमुत्पाद्यते; चतुर्मुखस्य चाण्डे सम्भवः स्मयते-३"तस्मिन्नण्डेऽभवब्रह्मा सर्वलोकपितामहः" इति । अतस्वित्करणं परस्यैव ब्रह्मणः, तत्समानकर्टकं नामरूपव्याकरणं च तस्यैवेति विज्ञायते । कथं तर्हि १“अनेन जीवन" इति स. गच्छते ; १“आत्मना जीवेन" इति सामानाधिकरण्यात् जीवशरीरं परं ब्रह्मैव जीवशब्देनाभिधीयतेः यथा ४"तत्तेज ऐक्षत" ४"तदपोऽसृजत" ४"ता आप ऐक्षन्त" ४"ता अन्नमसृजन्त" इति तेजःप्रभृतिशरीरकं परमेव ब्रह्माभिधीयते । अतो जीवसमष्टिभूतहिरण्यगर्भशरीरकस्य परस्यैव ब्रह्मणः कर्म नामरूपव्याकरणम् । एवं च १"प्रविश्य नामरूपे व्याकरवाणि" इति प्रविशतिरुत्तमपुरुषश्चाक्लिष्टी मुख्यार्थावेव भवतः। प्रवेशव्याकरणयोस्समानकर्तृकत्वमप्युपपद्यते । चतुर्मुखशरीरकस्य परस्यैव ब्रह्म
१. छा. ६-३-२॥-२. वि. पु. १.५-६३ ॥-
॥-४. ना. ६-२-३, ४॥
For Private And Personal Use Only