________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८० श्रीशारीरकमीमांसाभाष्ये
[म.२. शेषरूपक्रियारहितत्वाच यो दोष उद्भाव्यते ; स नास्ति । यत उपकारविशेषरूपां शरीरेन्द्रिवधारणात्मकक्रियां दर्शयति श्रुतिः-१ "यस्मिन्नुकान्त इदं शरीरं पापिष्ठतरमिव दृश्यते स वश्श्रेष्ठः' इति वागादिमुख्यप्राणपर्यन्तानि करणानि प्रत्येकमभिधाय प्राणोत्क्रमणे शरीरोन्द्रयशैथिल्याभिधानात् ॥ १०॥
प्राणापानादिनामभेदेन पञ्चधाऽवस्थित एक एव प्राण इत्याह
पञ्चवृत्तिर्मनोवद्वयपदिश्यते।। प्राणापानादिवृत्तिभेदात्प्राण एव पक्ष धा व्यपदिश्यते ; मनोवत्-यथैकमेव मनः कामादिवृत्तिभेदेन तैश्शन्दैरभि. धीयत इति श्रुतिराह, २ 'कामस्सङ्कल्पः” इत्यारभ्यर "ही रित्येतत्सर्वे मन एवं" इति । अपानादि समानपर्यन्तं व्यपदिश्य २ “एतत्सर्व प्राण एव" इति व्यपदेशात्प्राण एव पञ्चवृत्तिरित्यवगम्यते ॥ ११ ॥
इति वेदान्तदीपे वायुक्रियाधिकरणम् ॥ ४ ॥
-..
(श्रीशारीरकमीमांसाभाष्ये श्रेष्ठाणुत्वाधिकरणम् ॥५॥)---
अणुश्च । २।४।१२॥ अणुश्रायम् , पूर्ववदुत्क्रान्त्यादिश्रवणात् ३“तमुत्तामन्तं प्राणोऽनूत्कामति" इत्यादिषु । अधिकाशङ्का तु ४"सम एभिस्त्रिभिलॊकैस्समोऽनेन सर्वेण" ५"प्राणे सर्व प्रतिष्ठितम्" ६"सर्वे हीदं प्राणेनारतम्" इत्यादिश्रवणात् महापरिमाण इति ॥
-(सिद्धान्तः)..परिहारस्तु-उत्क्रान्त्यादिश्रवणात्परिच्छिन्नत्वे निश्रिते सर्वस्य प्राणिजातस्य प्राणायत्तस्थितित्वेन वैभववादोपपत्तिः-इति ॥ १२॥
इति भीशारीरकमीमांसाभाष्ये श्रेष्ठाणुत्वाधिकरणम् ॥ ५ ॥
१.१.५.१-७॥-२... ३-५-३॥-३. वृ. ६-४-२॥-४... ३.३-२२॥५॥-६॥
For Private And Personal Use Only