SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा...] प्राणोत्पत्त्यधिकरणम् . पयस्य नामधेयस्य वाग्विषयभूतवियदादिराष्टिपूर्वकत्वात् । १ "तद्धेदं तज्याकृतमासीत्तन्नामरूपाभ्यां व्याक्रियत" इति नामरूपभाजामभावातदानीं वागादीन्द्रियकार्याभावाच तानि न सन्तीत्यर्थः ॥३॥ इति श्रीशारीरकमीमांसाभाष्ये प्राणोत्पत्त्यधिकरणम् ॥१॥ वेदान्तसारे तथा प्राणाः। यथा जीवोत्पत्तिः नित्यत्वश्रुतेर्नोपपद्यते; तथेन्द्रियाण्यपि २"असहा इदमग्र आसीत्...ऋषयो वा व तेऽग्रे सदासीत्... प्राणा वा व ऋषयः" इति प्रलयकाले प्राणानां स्थित्युपदेशात् ॥१॥ नैवम् गौण्यसम्भवात्तत्माक्छूतेश्च ॥ तस्य परमात्मन एव सृष्टेः प्रागवस्थानश्रुतेः ऋषिशब्दः प्राणशन्दश्च परमात्मन्येव; बहुत्वासम्भवात् बहुवचनश्रुतिौणी ॥२॥ तत्पूर्वकत्वाद्वाचः ॥ परमात्मनः सृष्टिपूर्वकत्वात् इतरेषां नामयोगस्य तदानीं प्राणशब्दो नेन्द्रियविषयः ॥ ३ ॥ इति वेदान्तसारे प्राणोत्पत्त्यधिकरणम् ॥ १ ॥ वेदान्तदीपे—तथा प्राणाः॥ किं जीववदिन्द्रियाण्यपि नोत्पद्यन्ते, उत विवदादिवदुत्पद्यन्त इति संशयः।नोत्पद्यन्त इति पूर्वः पक्षः । प्रलयकाले अवस्थानश्रुतेः, उत्पत्तिवादाः जीवोत्पत्तिवादवनेयाः । २" असद्वा इदमग्र आसीत्...ऋषयो वा व तेऽग्रे सदासीत् के ते ऋषय शति प्राणा वा वऋषयः" इतीन्द्रियाणां तदानी स्थितिश्श्रूयते।राद्धान्तस्तु-प्राक्सृष्टेरेकत्वावधारणादिन्द्रिवाणाम् ३"एतस्माजायते" इत्युत्पत्तिवादात, उत्पत्तिनिषेधनित्यत्ववचनाभावाच,वियदादिवदुत्पद्यन्ते।२ "प्राणा वा व ऋषयः" इति प्राणशब्दनिर्दिष्टः परमात्मा ४ । सूत्रार्थस्तु तथा प्राणाः यथा जीवा नोत्पद्यन्ते तथा प्राणा अपि ॥१॥ बहुत्वासम्भवादहुवचनश्रुतिौणीस्याह१.स. ३-४-७॥-२. शतपथ. ६-१-६॥-३. मु २.१-३ ।। -४. प्राणशब्दस्य *प्राणमभिसविशन्ति" इति परमात्यन्यपि प्रसिद्धः २"प्राणा वाव ऋषयः' इति तस्यैव द्रष्टत्वा. सम्भवात् . पा॥ * डा.१-११-५ ॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy