SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १५० वेदान्तदीपे [अ. २. १" विज्ञानं यज्ञं तनुते" इत्यादौ ज्ञानमेव आत्मेति व्यपदिश्यते इति चेत् - तत्राह - व्यतिरेको गन्धवत्तथा च दर्शयति ।। जानामि इत्यात्मगुणत्वेन प्रतीतेः व्यतिरेको ऽभ्युपगमनीयःः यथा “गन्धवती पृथिवी ” इत्युपलब्धौ गन्धस्तगुणस्तद्व्यतिरिक्तः । दर्शयति च श्रुतिः २" जानात्येवायं पुरुषः” इति ॥ २७ ॥ Acharya Shri Kailassagarsuri Gyanmandir पृथगुपदेशात् || न केवलं जानामीति पृथगुपलब्धिमात्रम् ; आत्मनः पृथक्त्वेनोपदिश्यते च ज्ञानम्: ३'न हि विज्ञातुर्विज्ञातर्विपरिलोपो विद्यते " इति ॥ तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत् || ज्ञानगुणसारत्वादात्मनो ज्ञानमिति व्यपदेशः ; यथा ४ " प्राज्ञेन '५ "ब्रह्मणा विपश्चिता" "६ “यस्सर्वज्ञस्सर्ववित्" इति सर्वंश एव सर्वज्ञानगुणसारत्वात् ७" सत्यं ज्ञानम्" इति व्यपदिश्यते ॥ यावदात्मभावित्वाच्च न दोषस्तदर्शनात् || ज्ञानस्य यावदात्मस्वरूपभावित्वाच्च तेन तद्व्यपदेशो न दोषः, खण्डादिषु तथादर्शनात्; खण्डादिषु हि यावत्स्वरूपभाविधर्मत्वेन गोत्वस्य गौरिति व्यपदेशो दृश्यते; चकारादात्मनः स्वप्रकाशत्वेन ज्ञानमिति व्यपदेशे न दोष इत्युच्यते ॥ ३० ॥ सुषुप्त्यादिषु ज्ञानस्यानुपलब्धेः न यावदात्मभावित्वमित्याशङ्कयाह पुंस्त्वादिवत्वस्य सनोऽभिव्यक्तियोगात् ||तुशब्दश्शङ्कानिवृत्यर्थः;सुषुप्तयादिष्वपि सतो ज्ञानस्यानभिव्यक्तस्य जागर्यादिष्वभिव्यक्तिसम्भवात् यावदात्मभाव्येव ज्ञानम्; पुंस्त्वादिवत् पुंस्त्वमिति पुरुषासाधारणधातुरुच्यते; यथा सप्तधातुमयत्वेन शरीरस्य पुंस्त्वस्य बाल्ये ऽपि सतोऽनभिव्यक्तस्य सप्तमधातोः युवत्वेऽभिव्यक्तिः ॥ ३१ ॥ एवमात्मनो ज्ञातृत्वमणुत्वं चोक्त्वा पक्षान्तरे दोषमाह नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वाऽन्यथा । अन्यथा ज्ञानात्मवादे सर्वगतात्मवादे च उपलब्ध्यनुपलब्धी नित्यवत् प्रसज्येयाताम् ; उपलब्ध्यनुपलब्ध्योरन्यतरनियमो वा । ज्ञानात्मपक्षे तावत् ज्ञानस्य प्रकाशस्वभावत्वात्प्रकाश पर्यायेोपलब्धेर्नित्यवत्प्रसक्तिरनिवार्या; ज्ञाने विद्यमाने सति हेत्वन्तरेणानुपलब्धिजननायोगात् ज्ञानमेवानुपलब्धेरपि हेतुरित्यास्थे १. a. आन. ५-१ – २ . - ३.बृ. ६-३-३०॥ - ४. बृ. ६,३-२१ ॥ - ५ तै आन १-२॥ - ६. मु. १-१-९॥ - ७ तै. आन. १-१ ॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy