SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. ३. ] शाधिकरणम्. १४७ न्दनस्येतिचेत्-न, आत्मनोऽपि तदभ्युपगमात् ; १" हृदि ह्ययमात्मा ” २" योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः” इति श्रुतेः ॥ २५ ॥ स्वमतेनाह गुणाद्वालोकवत् ॥ आत्मा स्वगुणेन ज्ञानेन सकलदेहं व्याप्यानुभवति, यथा मणिप्रभृतयस्स्वकीयेनालोकेन सकलदेशं व्याप्य प्रकाशयन्ति ३" प्रशामात्रास्खर्पिताः " इति श्रुतेः ॥ २६ ॥ न शानात्मनोः व्यतिरेक इत्यत्राह व्यतिरेको गन्धवत्तथाच दर्शयति । “गन्धवती पृथिवी” इतिवत् “अहं जानामि” इति गुणत्वेनोपलब्धेः व्यतिरेको ऽस्ति, दर्शयति च श्रुतिर्व्यतिरेकं - ४ " जानात्येवायं पुरुषः" इति ॥ २७ ॥ पृथगुपदेशात् || आत्मनः पृथक्त्वेन चोपदिश्यते ५ " नहि विशातुर्विज्ञातेर्विपरिलोपो विद्यते " इति ॥ २८ ॥ २" योऽयं विज्ञानमयः " इति ज्ञानमात्रव्यपदेशः कथमित्यत्राह - तद्गुणसारत्वान्न तद्वयपदेशः प्राज्ञवत् || ज्ञानगुणसारत्वादात्मनो नानमिति व्यपदेशः, यथा प्राज्ञस्य विपश्चितोऽपि ६" सत्यं ज्ञानम् ” इति ॥२९॥ यावदात्मभावित्वाच्च न दोषस्तदर्शनात् ।। आत्मस्वरूपानुबन्धित्वात् ज्ञानस्य तेन व्यपदेशे न दोषः ; स्वरूपानुवन्धिधर्मत्वेन गोत्वादीनां खण्डादेः गौरित्यादिव्यपदेशो हि दृश्यते ॥ ३० ॥ सुषुप्त्यादिष्वसतो ज्ञानस्य यावदात्मभावित्वं कथमित्यत्राह - पुंस्त्वादिवत्वस्य सतोऽभिव्यक्तियोगात् । सुषुप्त्यादिषु सतो नानस्यानभिव्यक्तस्यापि जागरादावभिव्यक्तिसम्भवात्, स्वरूपानुबन्ध्येव ज्ञानम् ; यथा पुंस्त्वासाधारणसप्तमधातोर्बाल्येऽपि सतो युवत्वेऽभिव्यक्तिः; जीवात्मनो शातृत्व मणुत्वञ्चोक्तम् ॥ ३१ ॥ नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वाऽन्यथा ॥ शत १. प्रश्न. ३-६ ॥―२. बु. ६-३-७ ॥ - ३. कौषी ३.९ ॥ - ४॥ -- ५. बृ. ६-३३० ॥ - ६. तै. आन. १-१॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy