SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. ३. तेजोधिकरणम् दात्म्यमिदं सर्वम्"इत्यादिनाऽऽकाशादेस्सर्वस्य वस्तुनो ब्रह्मविकारत्ववचनात् यावद्विकारं विभागः–उत्पत्तिरुक्तैवेति गम्यते । लोकवत्-यथा लोके 'सर्व एते देवदत्तपुत्राः' इत्यभिधाय तेषां केषाश्चिदेवदत्तादुत्पत्तिवचनं सर्वेषां तत उत्पत्तिप्रतिपादनार्थमिति गम्यते । आकाशस्यामृतत्ववचनं सुरादिवश्चिरकालस्थायित्वविषयमित्यभिप्रायः॥ ७॥ एतेन मातरिश्वा व्याख्यातः ॥ अनेनैव न्यायन मातरिश्वनोऽप्युत्पतिरुक्का । नायं न्यायातिदेशः, अधिकाशङ्काभावात् । “तेजोऽतस्तथाह्याह" इति वायोस्तेजस उत्पत्तिं वक्तुं पृथगुपादानम् ॥ ८॥ असम्भवस्तु सतोऽनुपपत्तेः॥ तुशब्दोवधारणार्थः। सतः परमकारणस्य परस्यैव ब्रह्मणः असम्भवः---उत्पत्त्यसम्भवः । तद्यतिरिक्तस्य कृत्स्यैव एकविज्ञानेन सर्वविज्ञानप्रतिज्ञाद्यनुपपत्तेः सम्भव उक्त इत्यभिप्रायः ॥९॥ इति वेदान्तदीपे वियदधिकरणम् ॥ १ ॥ --(श्रीशारीरकमीमांसाभाष्ये तेजोधिकरणम्॥२॥... तेजोऽतस्तथाह्याह । २।३।१०॥ ब्रह्मव्यतिरिक्तस्य कृत्स्नस्य ब्रह्मकार्यत्वमुक्तम्, इदानीं व्यवहितकार्याणां किं केवलात्तत्तदनन्तरकारणभूताद्वस्तुन उत्पत्तिः, आहोखित्ततपाद्ब्रह्मण इति चिन्त्यते । किं युक्तम्? केवलात्तत्तद्वस्तु न इति । कुतः? तेजस्तावत् अतः-मातरिश्वन एवोत्पद्यते। १"वायोरग्निः" इति ह्याह॥१०॥ आपः। २।३।११॥ आपोऽपि अतः-तेजस एवोत्पद्यन्ते, १ "अनेरापः" २"तदपोऽसजत" इति वाह ॥ ११ ॥ पृथिवी । २।३।१२॥ १. ते, मान, १-अनु. २ ॥-२. छा. ६-२-३ ॥ *17 - - For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy