________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. २.]
उत्पत्त्यसम्भवाधिकरणम्
११५
धानाधिष्टानानुपपत्तेश्वासामञ्जस्यम्। सशरीरत्वाभ्युपगमेऽपि तच्छरीरस्य सावयवस्य नित्यत्वे अनित्यत्वे च दोषः पूर्वोक्त इत्यभिप्रायः ॥ ३६॥
करणवच्चेन्न भोगादिभ्यः ॥ क्षेत्रज्ञस्य स्वकरणकलेबराद्यधिष्ठानवदुपपद्यत इति चेत् न, पुण्यापुण्यरूपकर्मनिमित्तत्वात् क्षेत्रवाधिष्ठानस्य; ईश्वरस्यापि तद्वत्तया तत्फलभोगादिनिखिलतत्स्वभावप्रसक्तः ॥ ३७॥
अन्तवत्वमसर्वज्ञता वा ॥ वाशब्दश्चार्थे ; पुण्यापुण्यवत्त्वे त्वन्तवत्वं सृष्टिसंहारास्पदत्वमसर्वज्ञताच प्रसज्यत इत्यसमञ्जसमेवेदम् ॥ ३८ ॥
इति वेदान्तदीपे पशुपत्यधिकरणम् ॥ ७ ॥
--(श्रीशारीरकमीमांसाभाष्ये उत्पत्त्यसम्भवाधिकरणम्।।८).
उत्पत्त्यसम्भवात् ।२।२।३९॥ कपिलादितन्त्रसामान्याद्भगवदभिहितपरमनिःश्रेयससाधनावबोधिनि पञ्चरात्रतन्त्रेऽप्यप्रामाण्यमाशङ्कय निराक्रियते ; तत्रैवमाशङ्कते १"परमकारणात्परब्रह्मभूताद्वासुदेवात्सङ्कर्षणो नाम जीवो जायते सङ्कर्षणात्मद्युम्नसंज्ञं मनो जायते तस्मादनिरुद्धसंज्ञोऽहङ्कारो जायते" इति हि भागवतप्रक्रिया । अत्र जीवस्योत्पत्तिः श्रुतिविरुद्धा प्रतीयते श्रुतयो हि जीवस्यानादित्वं वदन्ति २ " न जायते म्रियते वा विपश्चित्" इत्याद्याः ।। ३९ ॥
न च कर्तुः करणम् । २।२।४०॥
१“सङ्कर्षणात्पद्युम्नसंज्ञं मनो जायते" इति कर्तुः जीवात् , करणस्य मनस उत्पत्तिर्न सम्भवति, ३" एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च" इति परस्मादेव ब्रह्मणो मनसोऽप्युत्पत्तिश्रुतेः । अतः श्रुतिविरु. द्धार्थप्रतिपादनादस्यापि तन्त्रस्य प्रामाण्यं प्रतिषिद्ध्यत इति ॥४०॥
१. परमसंहिता. २. कठ. २-१८॥ ३. मु. २-१-३ ॥
For Private And Personal Use Only