SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. २.1 पशुपत्यधिकरणम्. माणं मोक्षावस्थम् तस्य पश्चादेकरूपेणावस्थितेस्तदेव स्वाभाविकं परिमाणमिति, आत्मनश्च तत्परिमाणस्य चोभयोर्नित्यत्वात्पूर्वमपि न शरीरपरिमाणत्वसिद्धि. रिति पूर्वावस्थायां न विशेषः; अतः असङ्गतमेवेदजैनमतम् ॥ ३४ ॥ इति वेदान्तदीपे एकस्मिन्नसम्भवाधिकरणम् ॥ ६ ॥ ... श्रीशारीरकमीमांसाभाष्ये पशुपत्त्यधिकरणम् ॥ ७॥)... पत्युरसामञ्जस्यात् । २॥ २॥ ३५॥ कपिलकणादसुगताहतमतानामसामञ्जस्यात् वेदबाह्यत्वाच्च निश्श्रेयसाथिभिरनादरणीयत्वमुक्तम् ; इदानी पशुपतिमतस्य वेदविरोधादसामञ्जस्याच अनादरणीयतोच्यते। तन्मतानुसारिणश्चतुर्विधाः-कापालाः,कालामुखाः, पाशुपताः, शैवाश्च-इति । सर्वेचैते वेदविरुद्धां तत्त्वप्रक्रियाम् ऐहिकामुपिकनिश्श्रेयससाधनकल्पनाश्च कल्पयन्ति । निमित्तोपादानयोभेंदे, निमित्तकारणं च पशुपतिमाचक्षते। तथा निश्श्रेयससाधनमपि मुद्रिकाषदकधारणादिकम्।यथाहुः कापालाः-२"मुद्रिकाष टिकतत्त्वज्ञः परमुद्राविशारदः। भगासनस्थमात्मानं ध्यात्वा निर्वाणमृच्छति॥कण्ठिका रुचकं चैव कुण्डलं च शिखामणिः । भस्म यज्ञोपवीतं च मुद्राषट्कं प्रचक्षते ॥ आभिर्मुद्रितदेहस्तु नभूय इह जायते" इत्यादिकम्। तथा कालामुखा अपि कपालपात्रभोजनशवभस्मस्नानतत्प्राशनलगुडधारणसुराकुम्भस्थापनतदाधारदेवपूजादिकमहिका मुष्मिकसकलफलसाधनमभिदधति २"रुद्राक्षकङ्कणं हस्ते जटा चैका च मस्तके । कपालं भस्मना स्नानम्" इत्यादि च प्रसिद्धं शैवागमेषु। तथा केनचिक्रियाविशेषेण विजातीयानामपि ब्राह्मण्यप्राप्तिमुत्तमाश्रमप्राप्तिं चाहुः-२" दीक्षाप्रवेशमात्रेण ब्राह्मणो भवति क्षणात् । कापालं व्रतमास्थाय यतिर्भवति मानवः" इति । १. कापालिकाः. पा॥ २. शैवागमे ॥ ३. कणिका. पा ॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy