SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पा. २. ] एकस्मिन्नसम्भवाधिकरणम्. १०९ विकारतत्प्रयुक्तानित्यत्वादिदोषप्रसक्ते घटादितुल्यत्वप्रसङ्गात् ॥ ३३ ॥ अन्त्यावस्थितेश्वोभयनित्यत्वादविशेषः । २।२।३४॥ जीवस्य यदन्त्यं परिमाणं मोक्षावस्थागतम्, तस्य पश्चादेहान्तरपरिग्रहाभावादवस्थितत्वादात्मनश्च मोक्षावस्थस्य तत्परिमाणस्य चोभयोर्नित्यत्वात्तदेव आत्मनः स्वाभाविकं परिमाणमिति पूर्वमपि तस्मादविशेषः स्यात् । अतो देहपरिमाणत्वमात्मनो न स्यादित्यसङ्गतमेवेदमाईतमतम् ॥ ३४ ॥ इति श्रीशारीरकमीमांसाभाष्ये एकस्मिन्नसम्भवाधिकरणम् || ६ || Acharya Shri Kailassagarsuri Gyanmandir " वेदान्तसारे-नैकस्मिन्नसम्भवात् ।। अर्हतो मतं न युक्तिमत् एकस्मिन् वस्तुनि युगपत् सत्त्वासत्त्वनित्यत्वानित्यत्वभेदाभेदानाम् असम्भवात् । पर्यायरूपा द्रव्यस्यास्तित्वादिशब्दबुद्धिविषयाः परस्परविरुद्ध पिण्डत्य घटत्वकपालत्वाद्यवस्थाः युगपन्न सम्भवन्ति; तथा घटत्वशरावत्वावस्थाश्च पृथिव्यादेः प्रदेशभेदेन तथाच द्रव्यस्यानित्यत्वमुत्पत्तिविनाशयोगित्वम्, तद्विपरीतं नित्यत्वं नैकस्मिन् समवैति ॥ ३१ ॥ - एवं चात्माकात्स्त्रयम् || आत्मनश्शरीरपरिमाणत्वे बृहतश्शरीरादल्पीयसि प्रविशतः अकात्नार्थ विकलत्वं प्रसज्येत ॥ ३२ ॥ न च पर्यायादप्यविरोधी विकारादिभ्यः । तथा सङ्कोचविकासावस्थायोगादपि नाविरोधः, घटादिवद्विकारादि योगप्रसक्तेः ॥ ३३ ॥ For Private And Personal Use Only अन्त्यावस्थितेश्वोभयनित्यत्वादविशेषः || अन्त्यस्य मोक्षावस्थापरिमाणस्य एकरूपावस्थितेः तस्य स्वाभाविकत्वेनात्मतत्परिमाणयोरुभयोर्नित्यत्वे - न पूर्वत्रापि न विशेषः, विविधदेहपरिमाणत्वे वैकल्यं स्यादेव ॥ २४ ॥ इति वेदान्तसारे एकस्मिन्नसम्भवाधिकरणम् || ६ ||
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy