________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
_[अ. २.
श्रीशारीरकमीमांसाभाष्ये प्रत्यक्षानुमानसिद्धानभ्युपयन्ति , अन्ये तु बाह्यार्थान् सर्वान् पृथिव्यादीन्विज्ञानानुमेयान्वदन्ति ; अपरे त्वर्थशून्यं विज्ञानमेव परमार्थसत् , बाह्यार्थास्तु स्वामार्थकल्पा इत्याहुः त्रयोऽप्येते स्वाभ्युपगतं वस्तु क्षणिकमाचक्षते, उक्तभूतभौतिकचित्तचैत्तव्यतिरिक्तमात्माकाशादिकं स्वरूपेणैव नानुमन्वते ; अन्ये तु सर्वथून्यत्वमेव सङ्गिरन्ते । तत्र ये बाह्यास्तित्ववादिनः, ते तावनिरस्यन्ते ; तेचैवं मन्यन्ते-रूपरसस्पर्शगन्धस्वभावाः पार्थिवाः परमाणवः, रूपरसस्पर्शखभावाश्चाप्याः, रूपस्पर्शखभावाश्च तेजसाः, स्पर्शखभावाश्च वायवीयाः पृथिव्यप्तेजोवायुरूपेण संहन्यन्ते, तेभ्यश्च पृथिव्यादिभ्यः शरीरेन्द्रियविषयरूपसङ्घाता भवन्ति । तत्र च शरीरान्तर्वर्ती ग्राहकाभिमानारूढो विज्ञानसन्तान एवात्मत्वेनावतिष्ठते; तत एव सर्वो लौकिको व्यवहारः प्रवर्तते-इति ॥
तत्राभिधीयते-समुदाय उभयहेतुकेऽपि तदमाप्तिः-योऽयमणुहेतुः पृथिव्यादिभूतात्मकस्समुदायः, यश्च पृथिव्यादिहेतुकश्शरीरेन्द्रियविषयरूपस्समुदायः, तस्मिन्नुभयहेतुकेऽपि समुदाये तत्प्राप्तिर्नोपपद्यते-जगदास्मकसमुदायोत्पत्तिर्नोपपद्यत इत्यर्थः। परमाणूनां पृथिव्यादिभूतानां च क्षणिकत्वाभ्युपगमात्, क्षणध्वंसिनः परमाणवो भूतानि च कदा संहतो व्यामियन्ते, कदावा संहन्यन्ते, कदा विज्ञानविषयभूताः, कदा च हानोपादानादिव्यवहारास्पदतां भजन्ते, को वा विज्ञानत्मा कं च विषयं स्पृशति कश्च विज्ञानात्मा कमर्थ कदा वेदयते, वा विदितमर्थ कश्च कदोपादत्ते स्पष्टा हि नष्टः, स्पृष्टश्च नष्टः तथा वेदिता विदितश्च नष्टः कथं चान्येन स्पृष्टमन्यो वेदयते, कथश्चान्येन विदितमर्थमन्य उपादत्ते सन्तानानामेकत्वेऽपि सन्तानिभ्यस्तेषां वस्तुतो वस्त्वन्तरत्वानभ्युपगमान तनिबन्धनं व्यवहारादिकमुपपद्यते; अहमर्थ एवात्मा, सच ज्ञातैवेति चोपपादितं पुरस्तात् ॥ १७ ॥
For Private And Personal Use Only