SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शारीरकमीमांसाभाष्ये [अ. १. गतस्य वाक्यार्थस्याल्पभागश्रवणाद्दरवगमत्वेन तेन विना निश्चयायोगादुपबृंहणं हि कार्यमेव ।। तत्र पुलस्त्यवसिष्ठवरप्रदानलब्धपरदेवतापारमार्थ्यज्ञानवतो भगवतः पराशरात्स्वावगतवेदार्थोपबृंहणमिच्छन्मैत्रेयः परिपप्रच्छ— १“सोऽहमिच्छामि धर्मज्ञ श्रोतुं त्वत्तो यथा जगत् । बभूव भूयश्च यथा महाभाग भविष्यति ॥ यन्मयं च जगह्मन् यतश्चैतच्चराचरम् । लीनमासीद्यथा यत्र लयमेष्यति यत्रच ॥” इत्यादिना ॥ अत्र ब्रह्मस्वरूपविशेषतद्विभूतिभेदप्रकारतदाराधन स्वरूपफलविशेषाश्च पृष्टाः । ब्रह्मस्वरूपविशेषप्रश्नेषु यतश्चैतच्चराचरमिति निमित्तोपादानयोः पृष्टत्वाद्यन्मयमित्यनेन सृष्टिस्थितिलयकर्मभूतं जगत्किमात्मकमिति पृष्टम् । तस्य चोत्तरं जगच स इति । इदं च तादात्म्यमन्तर्यामिरूपेणऽत्मतया व्याप्तिकृतम् । न तु व्याप्यव्यापकायोर्वस्त्वैक्यकृतम् । यन्मयमिति प्रश्नस्योत्तरत्वाजगच्च स इति सामानाधिकरण्यस्य यन्ययमिति मयडन न विकारार्थः, पृथक् प्रश्नवैयर्थ्यात् । नापि प्राणमयादिवत्स्वार्थिकः, जगच्च स इत्युत्तरानुपपत्तेः । तदा हि विष्णुरेवेत्युत्तरमभविष्यत् । अतः प्राचुर्यार्थ एव । २ "तत्प्रकृतवचने मयद" इति मयट् । कृत्स्नं च जगत्तच्छरीरतया तत्पचुरमेव । तस्माद्यन्मयमित्यस्य प्रतिवचनं जगच्चस इति सामानाधिकरण्यं जगद्ब्रह्मणोश्शरीरात्मभावनिबन्धनमिति निश्चीयते । अन्यथा निर्विशेषवस्तुप्रतिपादनपरे शास्त्रेऽभ्युपगम्यमाने सर्वाण्येतानि प्रश्नपतिवचनानि न संगच्छन्ते । तद्विवरणरूपं कृत्स्नं च शास्त्रं न संगच्छते । तथाहि सति प्रपञ्चभ्रमस्य किमधिष्ठानमित्येवं रूपस्यैकस्य प्रश्नस्य निर्विशेषज्ञानमात्रमित्येवंरूपमेकमेवोत्तरं स्यात् । जग१. विष्णु. पु. १. अं. १. अ. ४, ५. श्रो. / २. अष्टा. ५. अ. ४. पा. २१. सू. For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy