SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] जिज्ञासाधिकरणम् शब्दस्यैकरूपत्वमपि न साधीयः, गकारादेोधकस्यैव श्रोतग्राह्यत्वेन शब्दत्वात् । अतोऽसत्याच्छास्त्रात्सत्यब्रह्मविषयप्रतिपत्तिदुरुपपादा ॥ ननु न शास्त्रस्य गगनकुसुमवदसत्यत्वम् ; प्रागद्वैतज्ञानात्सद्धद्धिबोध्यत्वात् । उत्पन्ने तत्त्वज्ञाने ह्यसत्यत्वं शास्त्रस्य । न तदा शास्त्रं निरस्तनिखिलभेदचिन्मात्रब्रह्मज्ञानोपायः । यदोपायस्तदा अस्त्येव शास्त्रं, आस्तीतिबुद्धेः। नैवम् ,असति शास्त्रे अस्ति शास्त्रमिति बुद्धर्मिथ्यात्वात्। ततः किम्? इदं ततः मिथ्याभूतशास्त्रजन्यज्ञानस्य मिथ्यात्वेन तद्विषयस्यापि ब्रह्मणो मिथ्यात्वम् ; यथा धूमबुद्ध्या गृहीतबाष्पजन्याग्निज्ञानस्य मिथ्यात्वेन तद्विषयस्याग्नेरपि मिथ्यात्वम् । पश्चात्तनबाधादर्शनश्वासिद्धम् शून्यमेव तत्त्वमितिवाक्येन तस्यापि बाधदर्शनात् । तत्तु भ्रान्तिमूलामिति चेत्, एतदपि भ्रान्तिमूलमिति त्वयैवोक्तम् । पाश्चात्त्यबाधादर्शनं तु तस्यैवेत्यलमप्रतिष्ठितकुतर्कपरिहसनेन । यदुक्तं वेदान्तवाक्यानि निर्विशेषज्ञानैकरसवस्तुमात्रप्रतिपादनपराणि, " सदेव सोम्येदमग्र आसीत्" इत्येवमादीनि इति तदयुक्तं, एकविज्ञानेन सर्वविज्ञानप्रतिज्ञोपपादनमुखेन सच्छब्दवाच्यस्य परस्य ब्रह्मणो जगदुपादानत्वम् , जगनिमित्तत्वम् , सर्वज्ञता, सर्वशक्तियोगः, सत्यसङ्कल्पत्वम् , सर्वान्तरत्वम् , सर्वाधारत्वम् , सर्वनियमनमित्याद्यनेककल्याणगुणविशिष्टताम् , कृत्स्नस्य जगतस्तदात्मकतां च प्रतिपाद्य, एवंभूतब्रह्मात्मकस्त्वमसीति श्वेतकेतुं प्रत्युपदेशाय प्रवृत्तत्वात्प्रकरणस्य । प्रपश्चितश्चायमों वेदार्थसंग्रहे । अत्राप्यारम्भणाधिकरणे निपुणतरमुपपादयिष्यते ॥ २॥ अथ परा यया तदक्षरम्" इत्यत्रापि प्राकृतान् हेयगुणान् प्रतिषिध्य नित्यत्वविभुत्वमुक्ष्मत्वसर्वगतत्वाव्ययत्वभूतयोनित्वसाझ्या १. सर्वाधारता. पा. For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy