________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. १.]
जिज्ञासाधिकरणम् -
४९
ननु व्यावहारिकप्रमाणप्रमेयव्यवहारोऽस्माकमप्यस्त्येव ; कोऽयं व्यावहारिको नाम ? आपातप्रतीतिसिद्धो युक्तिभिर्निरूपितो न तथाऽवस्थित इति चेतुः किं तेन प्रयोजनम् ? प्रमाणतया प्रतिपन्नेऽपि यौक्तिकबाधादेव प्रमाणकार्याभावात्। अथोच्येत -- शास्त्रप्रत्यक्षयोः द्वयोरप्यविद्यामूलत्वेऽपि प्रत्यक्षविषयस्य शास्त्रेण बाधो दृश्यते; शास्त्रविषयस्य सदातीयब्रह्मणः पश्चात्तनबाधादर्शनेन निर्विशेषानुभूतिमात्रं ब्रह्मैव परमार्थः - इति । तदयुक्तम्, अबाधितस्यापि दोषमूलस्यापारमार्थ्यनिश्चयात् ॥
एतदुक्तं भवति - - यथा सकलेतरकाचादिदोषरहित पुरुषान्तरागोचरगिरिगुहासु वसतस्तैमिरिकजनस्याज्ञातस्वतिमिरस्य सर्वस्य तिमिरदोषाविशेषेण द्विचन्द्रज्ञानमविशिष्टं जायते । न तत्र वाधकप्रत्ययो ऽस्तीति न तन्मिथ्या न भवतीति तद्विषयभूतं द्विचन्द्रत्वमपि मिथ्यैव । दोषो ह्ययथार्थज्ञानहेतुः । तथा ब्रह्मज्ञानमविद्यामूलत्वेन बाधकज्ञानरहितमपि स्वविषयेण ब्रह्मणा सह मिथ्यैव - इति । भवन्ति चात्र प्रयोगाः, विवादाध्यासितं ब्रह्म मिथ्या, अविद्यावत उत्पन्नज्ञानविषयत्वात् प्रपञ्चवत् । ब्रह्म मिथ्या, ज्ञानविषयत्वात् प्रपञ्चवत् । ब्रह्म मिथ्या, असत्यहेतुजन्यज्ञानविषयत्वात् प्रपञ्चवदेव ॥
"
न च वाच्यं - स्वाप्नस्य हस्त्यादिविज्ञानस्यासत्यस्य परमार्थशुभाशुभप्रतिपत्तिहेतुभाववदविद्या मूलत्वेनासत्यस्यापि शास्त्रस्य परमार्थभूतब्रह्मविषयप्रतिपत्तिहेतुभावो न विरुद्धः - - इति, स्वाप्नज्ञानस्यासत्यत्वाभाaalna हि विषयाणामेव मिथ्यात्वम् ; तेषामेव हि बाधो दृश्यते ; न ज्ञानस्य न हि मया स्वप्नवेलायामनुभूतं ज्ञानमपि न विद्यत इति कस्यचि - दपि प्रत्ययो जायते । दर्शनं तु विद्यते अर्था न सन्तीति हि बाधकप्रत्य - यः । मायाविनो मन्त्रौषधादिप्रभवं मायामयं ज्ञानं सत्यमेव प्रीतेर्भयस्य च हेतु:; तत्रापि ज्ञानस्याबाधितत्वात् । विषयेन्द्रियादिदोषजन्यं रज्ज्वा१. द्वयोरविद्यामूलत्वेऽपनि पा २. परमार्थब्रह्म. पा. ३. विरुध्यते. पा.
7
For Private And Personal Use Only