SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६ शारीरकमीमांसाभाष्ये [अ. १. पदार्थस्स आत्मा ।तस्मिन् तद्धलनि सिततया युष्मदर्थलक्षणोऽहं जानामांति सिध्यनहमर्थश्चिन्मात्रातिरेकी युष्मदर्थ एव । नैतदेवम्, 'अहं जानमि' इति धर्मधर्मितया प्रत्यक्षप्रतीतिविरोधादेव ।। किञ्चअहमर्थो न चेदात्मा प्रत्यक्त्वं नाऽत्मनो भवेत् । अहंबुद्ध्या परागर्थात् प्रत्यगर्थो हि भिद्यते ॥ निरस्ताखिलदुःखोऽहमनन्तानन्दभाक् स्वराट् । भवेयमिति मोक्षार्थी श्रवणादौ प्रवर्तते ॥ अहमर्थविनाशश्चेन्मोक्ष इत्यध्यवस्यति । अपसर्पदसौ मोक्षकथाप्रस्तावगन्धतः ॥ मयि नष्टेऽपि मत्तोऽन्या काचिज्ज्ञप्तिरवस्थिता । इति तत्माप्तये यत्नः कस्यापि न भविष्यति ॥ स्वसम्बन्धितया ह्यस्यास्सत्ता विज्ञप्तितादि च । स्वसम्बन्धवियोगे तु ज्ञप्तिरेव न सिद्ध्यति ॥ छेत्तुश्छेद्यस्य चाभावे छेदनादेरसिद्धिवत् । अतोऽहमर्थो ज्ञातैव प्रत्यगात्मेति निश्चितम् ।। १ 'विज्ञातारमरे' २'केन जानात्येवेति च श्रुतिः । ३'एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ' इति च स्मृतिः॥ ४'नाऽत्मा श्रुते'रित्यारभ्य मूत्रकारोऽपि वक्ष्यति । ५'ज्ञोऽतएवे'त्यतो नाऽत्मा ज्ञप्तिमात्रमिति स्थितम् ॥ अहं प्रत्ययसिद्धो ह्यस्मदर्थः; युष्मत्प्रत्ययविषयो युष्मदर्थः। तत्राह जानामीति सिद्धो ज्ञाता युष्मदर्थइति वचनं जननी मे वन्ध्यतिवव्याहतार्थ च । नचासौ ज्ञाताऽहमर्थोऽन्याधीनप्रकाशः,स्वयंप्रकाशत्वात् । चैतन्यस्वभावता हि स्वयंप्रकाशता । यः प्रकाशस्वभावः; सोऽनन्याधीनप्र १, बु. ४. अ. ४. ब्रा. १४. वा. ४. २. शारी अ. ३. पा. १८. सू. ५. २. शारी अ. ३. पा. १९. सू. २. ३. गी. १३. अ. १. श्लो. For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy