________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. १.]
जिज्ञासाधिकरणम् . द्विशेषेण वियुक्तस्य ग्रहणम् , न सर्वविशेषरहितस्य तथाभूतस्य कदाचिदपि ग्रहणादर्शनादनुपपत्तेश्च । केनचिद्विशेषेणेदमित्थमिति हि सर्वा प्रतीतिरुपजायते, त्रिकोणसास्नादिसंस्थानविशेषेण विना कस्यचिदपि पदार्थस्य ग्रहणायोगात्। अतो निर्विकल्पकमेकजातीयद्रव्येषु प्रथमपिण्डग्रहणम् । द्वितीयादिपिण्डग्रहणं सविकल्पकमित्युच्यते । तत्र प्रथमपिण्डग्रहणे गोत्वादेरनुवृत्ताकारता न प्रतीयते । द्वितीयादिपिण्डग्रहणे
धेवानुवृत्तिप्रतीतिः। प्रथमप्रतीत्यनुसंहितवस्तुसंस्थानरूपगोत्वादेरनुवृत्तिधर्मविशिष्टत्वं द्वितीयादिपिण्डग्रहणावसेयमिति, द्वितीयादिग्रहणस्य सविकल्पकत्वम् । सानादिवस्तुसंस्थानरूपगोत्वादेरनुत्तिर्न प्रथमापिण्डग्रहणे गृह्यत इति, प्रथमपिण्डग्रहणस्य निर्विकल्पकत्वम् ; न पुनस्संस्थानरूपजात्यादेरग्रहणात्। संस्थानरूपजात्यादेरप्यन्द्रियिकत्वाविशेषात् ,संस्थानेन विना संस्थानिनः प्रतीत्यनुपपत्तेश्च प्रथमपिण्डग्रहणेऽपि ससंस्थानमेव वस्त्वित्थमिति गृह्यते॥
___ अतो द्वितीयादिपिण्डग्रहणेषु गोत्वादेरनुवृत्तिधर्मविशिष्टता संस्थानिवत्संस्थानवच्च सर्वदैव गृह्यत इति तेषु सविकल्पकत्वमेव । अतः प्रत्यक्षस्य कदाचिदपि न निर्विशेषविषयत्वम् । ____ अतएव सर्वत्र भिन्नाभिन्नत्वमपि निरस्तम् । इदमित्थामति प्रतीताविदमित्थंभावयोरैक्यं कथमिव प्रत्येतुं शक्यते । तत्त्थंभावस्सास्नादिसंस्थानविशेषः, तद्विशेष्यं द्रव्यमिदमंश इत्यनयोरैक्यं प्रातिपराहतमेव । तथाहि प्रथममेव वस्तु प्रतीयमानं सकलेतरव्यावृत्तमेव प्रतीयते । व्यावृत्तिश्च गोत्वादिसंस्थानविशेषविशिष्टतयेत्थमिति प्रतीतेः। सर्वत्र विशेषणविशेष्यभावप्रतिपत्तौ तयोरत्यन्तभेदः प्रतीत्यैव सुव्यक्तः। तत्र दण्डकुण्डलादयः पृथक्संस्थानसंस्थिताः स्वनिष्ठाश्च कदाचित्कचिद. व्यान्तरविशेषणतयाऽवतिष्ठन्ते। गोत्वादयस्तु द्रव्यसंस्थानतयैव पदार्थ
For Private And Personal Use Only