SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा..] प्रकृत्यधिकरणम् . ४०५ मणि दोषावहत्वं स्वभावः,प्रत्युत निरङ्कशैश्वर्यावहत्वमेवेत्यभिप्रायः । एवमेव हि परिणाम उपदिश्यते; अशेषहेयप्रत्यनीककल्याणैकतानं खेतरसमस्तवस्तुविलक्षणं सर्वशं सत्यसङ्कल्पमवाप्तसमस्तकाममनवधिकातिशयानन्दं स्खलीलोपकरणभूतसमस्तचिदचिद्वस्तुजातशरीरतया तदात्मभूतं परं ब्रह्म स्वशरीरभूते प्रपञ्चे तन्मात्राहकारादिकारणपरम्परया तमशब्दवाच्यातिसूक्ष्माचिद्वस्त्वेकशेषे सति, तमसि च खशरीरतयापि पृथनिर्देशानातिसूक्ष्मदशापत्त्या स्वस्मिन्नेकतामापन्ने सति, तथाभूततमश्शरीरं ब्रह्म पूर्ववद्विभक्तनामरूपचिदचिन्मिश्रप्रपञ्चशरीरं स्यामिति सङ्कल्प्याप्ययक्रमेण जगच्छरीरतया आत्मानं परिणमयतीवि सर्वेषु वेदान्तेषु परिणामोपदेशः । तथैव बृहदारण्यके कृत्स्नस्य जगतो ब्रह्मशरीरत्वं ब्रह्मणस्तदात्मत्वं चाम्नायते १" यः पृथिव्यां तिष्ठन्पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः" इत्यारभ्य १“यस्यापश्शरीरम् १"यस्याग्निशरीरं" १“यस्यान्तरिक्षं शरीरम्" १“यस्य वायुश्शरीरम्" १“यस्य धौश्शरीरम्॥१“यस्यादित्यश्शरीरम्" १“यस्य दिशश्शरीरम् " १“यस्य चन्द्रतारकं शरीरम्" १“यस्याकाशश्शरीरम्" १" यस्य तमश्शरीरम्" १“ यस्य तेजश्शरीरम्" १“यस्य सर्वाणि भूतानि शरीरम्" १“ यस्य प्राणश्शरीरम्"? “यस्य वाक्छरीरम्"१“यस्य चक्षुश्शरीरम्"१ “यस्य श्रोलं शरीरम्" १“यस्य मनश्शरीरम्" १“यस्य त्वक्छरीरम्" १“यस्य विज्ञानं शरीरम्" १" यस्य रेतश्शरीरम्" इत्येवमन्तेन काण्वपाठे माध्यन्दिने तु पाठे विज्ञानस्थाने 'यस्याऽत्मा शरीरम्' इति विशेषः । लोकयज्ञवेदानां परमात्मशरीरत्वमधिकम् । सुबालोपनिषदि च पृथिव्यादीनां तत्त्वानां परमात्मशरीरत्वमभिधाय वाजसनेयकेऽनुक्तानामपि तत्त्वा १. इ.५-७-३ वाक्यमारभ्य २३ वाक्यपर्यन्तम् ॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy