________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पा. ४.]
प्रकृत्यधिकरणम् .
मेवावस्थान्तरापनं कार्यम्, न द्रव्यान्तरमिति कार्यकारणरूपेणावस्थितमृत्तद्विकारादिनिदर्शनेन प्रतिज्ञासमर्थनाद्ब्रह्म जगदुपादानं चेति निश्चीयते । यतु निमित्तोपादानयोर्भेदश्श्रुत्यैव प्रतीयत इति तदसत्, निमित्तोपादानयोरैक्यप्रतीतेः १ “उत तमादेशमप्राक्ष्यः येनाश्रुतं श्रुतं भवति" इति । आदिश्यते प्रशिष्यतेऽनेनेत्यादेशः, २" एतस्य वा अक्षरस्य प्रशासने गार्गि" इत्यादिश्रुतेः । साधकतमत्वेन कर्ता विवक्षितः । तमादेष्टारमप्राक्ष्यः, येनाश्रुतं श्रुतं भवति, येनादेष्टाऽधिष्ठात्रा श्रुतेनाश्रुतमपि श्रुतं भवतीति निमित्तोपादानयोरैक्यं प्रतीयते, ३" सदेव सोम्येदमग्र आसीदेकमेव " इति प्राक्सृष्टेरेकत्वावधारणादद्वितीयपदेनाधिष्ठात्रन्तरनिवारणाच्च । नन्वेवं सति ४" विकारजननीम् " ४ "गौर नायन्तवती " इत्यादिभिः प्रकृतेराद्यन्तविरहेण नित्यत्वं जगदुपादानत्वं च श्रूयमाणं कथमुपपद्यते । तदुच्यते तत्राप्यविभक्तनामरूपं कारणावस्थं ब्रह्मैव प्रकृतिशब्देनाभिधीयते ब्रह्मव्यतिरिक्तवस्त्वन्तराभावात् । तथाहि श्रुतयः ५" सर्वे तं परादाद्योऽन्यत्त्राऽत्मनस्सर्व वेद" ६ "यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन के पश्येत्" इत्याद्याः ; ७" सर्व खल्विदं ब्रह्म" " ऐतदात्म्य - मिदं सर्वम्" इति कार्यावस्थं कारणावस्थं च सर्व जगद्ब्रह्मात्मकमिति श्रवणाच्च । एतदुक्तं भवति - ९ “ यः पृथिवीमन्तरे सञ्चरन्यस्य पृथिवी शरीरं यं पृथिवी न वेद" इत्यारभ्य ९ “ योऽव्यक्तमन्तरे सञ्चरन्यस्याव्यक्तं शरीरं यमव्यक्तं न वेद योऽक्षरमन्तरे सञ्चरन्यस्याक्षरं शरीरं यमक्षरं न वेद ” १०" यः पृथिव्यां तिष्ठन्पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयति" इत्यारभ्य ११ “य
८
१. छा. ६-१-३ ॥ २. बृ. ५-८-९ ॥ ३. छा. ६-२-१॥ ४ मन्त्रिकोपनिषदि ॥ ५. बृ. ६-५-७ ॥ ६ . ६-५-१५ ॥ 51
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
४०१
७. छा. ३-१४-१ ॥ ८. छा. ६-८-७ ॥ ९. सुबा. ७ ॥ १०. बृ. ५-७-३ ॥ ११. बु. ५-७-२२ ॥