SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भीशारीरकमीमांसाभाग्ये पुरुषाभवा कारणावमा अतिसूक्ष्मावयवा शक्तिरूपेणावतिष्ठते; तदवसाभिप्रायेणास्या भजात्वम् । राष्टिवेलायां पुनस्लच्छरीराब्रह्मणः स्थूलावस्था जायते; सदवला ज्योतिरुपक्रमेति न कश्चिद्विरोधः । मन्वादिवत्-यथा आदित्यस्यैकस्यैव कार्यावस्थायाम्-१"असौ वा आदित्यो देवमधु" इति वस्खादिभोम्यरसाधारतया मधुत्वम्, तस्यैवर "अथ तत ऊर्ध्व उदत्य नैवोदेता नास्तमेतैकल एव मध्ये स्थाता" इत्यादिना नामरूपप्रहाणेन कारणावस्थायां सूक्ष्मस्यैकस्यैवापखानं न विरुभ्यते, तद्वत् ॥ १०॥ इति वेदान्तदीपे चमसाधिकरणम् ॥ २ ॥ ...(श्रीशारीरकमीमांसाभाष्ये संख्योपसंग्रहाधिकरणम्॥३॥... न संख्योपसंग्रहादपि नानाभावादतिरेकाच्च। १।४।११॥ वाजसनेयिनस्समामनन्ति ३"यस्मिन्पश्च पश्चजना आकाशश्च प्रतिष्ठितः। तमेवम्मन्य आत्मानं विद्वान्ब्रह्मामृतोऽमृतम्" इति । किमयं मन्त्रः कापिलतन्त्रसिद्धतत्त्वप्रतिपादनपरः,उत नेति सन्दियताकि युक्तम्। तन्त्रसिदतत्त्वप्रतिपादनपर इति । कुतः? पञ्चशब्दविशेषितात्पश्चजनशदात्पञ्चविंशतितत्त्वप्रतीतेः। एतदुक्तं भवति ३“पञ्चजनाः" इति समासस्समाहारविषयः पश्चानां जनानां समूहाः पञ्चजनाः पञ्चपूल्य'इतिवत्। पञ्च जनाइति लिङ्गव्यत्ययश्छान्दसः । ते च समूहाः कतीत्यपेक्षायां पवजनशन्दविशेषणेन प्रथमेन पञ्चशन्देन समूहाः पञ्चेति प्रतीयन्ते यथा पश्च पञ्चपूल्य इति। अतः३“पञ्च पश्चजनाः"इतिपञ्चविंशतिपदार्थावगतो ते कतम इत्यपेक्षायां मोक्षाधिकारान्ममुक्षुभिः ज्ञातव्यतया स्मृतिप्रसिदाः प्रकत्यादय एव शायन्ते । "मूलप्रकृतिरविकृतिमहदाद्याः प्रकृतिविकतय१. ..१-२ ॥२. छा. ३-११-१॥ | ३. स. ६.४.१७॥ ४. सांस्यतत्त्वकारिका॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy