________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीशारीरकमीमांसाभाष्ये
म. १. ण्यान्महच्छब्देन न तान्त्रिकं महत्तत्त्वं गृह्यते, एवमव्यक्तशब्देनापि न ताधिकं प्रधानम् ॥७॥
इति वेदान्तदीपे आनुमानिकाधिकरणम् ॥ १॥
--(श्रीशारीरकमीमांसाभाष्ये चमसाधिकरणम् ॥ २॥)
.
चमसवदविशेषात् । १॥४॥८॥ अत्रापि तन्त्रसिद्धमक्रिया निरस्यते, न ब्रह्मात्मकानां प्रकृतिमहदहकारादीनां स्वरूपम् , श्रुतिस्मृतिभ्यां ब्रह्मात्मकानां तेषां प्रतिपादनाव। यथा आथर्वणिका अधीयते-१"विकारजननीमज्ञामष्टरूपामजां ध्रुवाम् । ध्यायतेऽध्यासिता तेन तन्यते प्रेर्यते पुनः । सूयते पुरुषार्थ च तेनैवाधिष्ठिता जगत् । गौरनाद्यन्तवती सा जनित्री भूतभाविनी । सिताऽसिता च रक्ता च सर्वकामदुधा विभोः। पिबन्त्येनामविषमामविझाताः कुमारकाः । एकस्तु पिबते देवः स्वच्छन्दोऽत्र वशानुगाम् । ध्यानक्रियाभ्यां भगवान्भुङ्क्तेऽसौ प्रसभं विभुः। सर्वसाधारणी दोग्धीं पीज्यमानां तु यज्वभिः""चतुर्विंशतिसङ्ख्यातमव्यक्तं व्यक्तमुच्यते" इति। अत्र प्रकृत्यादीनां स्वरूपमभिहितम् यदात्मकायैते प्रकृत्यादयः,स परमपुरुषोऽपि १"तं षड़िशकमित्याहुस्सप्तविंशमथापरे । पुरुषं निर्गुणं सावयमथर्वशिरसो विदुः" इति प्रतिपाद्यते; अपरे चाथर्वणिकाः २'अष्टौ प्रकृतयषोडश विकाराः" इत्यधीयते; श्वेताश्वतराश्चैवं प्रकृतिपुरुषेश्वरखरूपमामनन्ति ३"संयुक्तमेतत्क्षरमक्षरं च व्यक्ताव्यक्तं भरते विश्वमीशः। अनीशश्वात्मा बध्यते भोक्तृभावात् ज्ञात्वा देवं मुच्यते सर्वपापैः।४"ज्ञानी १. मन्त्रिकोपनिषदि.
___३. ४. श्रे, १-८, ९॥
For Private And Personal Use Only