SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०१ पा. ३.] ___ ईक्षतिकर्माधिकरणम्. स्त्वचा विनिर्मुच्यते एवं हवै स पाप्मना विनिर्मुक्तस्ससामभिरुन्नीयते ब्रह्मलोकं स एतस्माज्जीवघनात्परात्परं पुरिशयं पुरुषमीक्षते" इति। अत्र ध्यायतीक्षतिशब्दावेकविषयौ, ध्यानफलत्वादीक्षणस्य ; १" यथाक्रतुरस्मिल्लोके पुरुषः" इति न्यायेन ध्यानविषयस्यैव प्राप्यत्वात् , २"परं पुरुषम्" इत्युभयत्र कर्मभूतस्यार्थस्य प्रत्यभिज्ञानाच्च ॥ तत्र संशय्यते-किमिह "परं पुरुषम् इति निर्दिष्टो जीवसमष्टिरूपोऽण्डाधिपतिश्चतुर्मुखः,उत सर्वेश्वरः पुरुषोत्तमः-इति। किं युक्तम् समष्टिक्षेत्रज्ञ इति। कुतः १ २ "स यो ह वैतद्भगवन्मनुष्येषु प्रायणान्तमोङ्कारमंभिध्यायीत कतमं वाव स तेन लोकं जयति" इति प्रक्रम्यैकमानं प्रणवमुपासीनस्य मनुष्यलोकमाप्तिमभिधाय, द्विमानमुपासीनस्य अन्तरिक्षलोकप्राप्तिमभिधाय, त्रिमात्रमुपासीनस्य प्राप्यतयाऽभिधीयमानो ब्रह्मलोकोऽन्तरिक्षात्परो जीवसमष्टिरूपस्य चतुर्मुखस्य लोक इति विज्ञायते; तद्गतेन चेक्ष्यमाणस्तल्लोकाधिपतिश्चतुर्मुख एव । २"एतस्माजीवघनात्परात्परम्" इतिच देहेन्द्रियादिभ्यः परादेहेन्द्रियादिभिस्सह घनीभूताज्जीवव्यष्टिपुरुषाद्ब्रह्मलोकवासिनस्समष्टिपुरुषस्य चतुमुखस्य परत्वेनोपपद्यते । अतोऽत्र निर्दिश्यमानः परः पुरुषस्समष्टिपुरुषश्चतुर्मुख एव । एवं चतुर्मुखत्वे निश्चिते अजरत्वादयो यथा कथश्चिनेतव्याः ॥ -.(सिद्धान्तः)-- इति प्राप्ते प्रचक्ष्महे-ईक्षतिकर्मव्यपदेशात्सः-ईक्षतिकर्म सः-परमात्मा।कुतः व्यपदेशात्-व्यपदिश्यते हीक्षतिकर्म परमात्मत्वेन। तथाहि-ईक्षतिकर्मविषयतयोदाहते श्लोके ३ "तमोङ्कारेणैवायनेनान्वेति विद्वान्यत्तच्छान्तमजरममृतमभयं परंच" इति। परं शान्तमजरमभयममृतमिति हि पर१. छा. ३-१४-१॥ २. प्रश्न. ५-१॥ ३. प्रश्न. ५-७॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy