SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. २.] वैश्वानराधिकरणम् २७९ चक्षुषी चन्द्रसूर्यो" १"द्यां मूर्धानं यस्य विप्रा वदन्ति" इति श्रुतिस्मृतिप्रसिद्ध परमपुरुषरूपमिह प्रत्यभिज्ञायमानं वैश्वानरस्य परमात्मत्वे लिङ्गं स्यादित्यर्थः ॥ शब्दादिभ्योऽन्तःप्रतिष्ठानाच्च नेतिचेन्न तथा दृष्टयुपदेशादसम्भवात्पुरुषमपि चैनमधीयते।।२।२७॥ अनिर्णयमाशङ्कय परिहरति-शब्दादिभ्योऽन्तःप्रतिष्ठानाच-इति। शब्दस्तावत् वाजिनां वैश्वानरविद्याप्रकरणे२ "स एषोऽग्निर्वैश्वानरः" इति वैश्वानरसमानाधिकरणोऽग्निशब्दः । अस्मिन् प्रकरणे च ३"हृदयं गार्हपत्यः" इत्यारभ्य वैश्वानरस्य हृदयादिस्थानस्याग्नित्रयपरिकल्पनं प्राणाहुत्याधारत्वञ्चेत्यादि प्रतीयते । वाजिनामपि ४"स यो हवैतमेवमग्निं वैश्वानरं पुरुषविधं पुरुषेऽन्तः प्रतिष्ठितं वेद" इति वैश्वानरस्य शरीरान्तःप्रतिष्टितत्वं प्रतीयते । अतः एतैर्लि वैश्वानरस्य जाठराग्नित्वप्रतीते र्नायं परमात्मेति शक्यनिर्णय इति चेत्-तभा तथा दृष्टयुपदेशात् , दृष्टिः - उपासनम् , तथोपासनोपदेशादित्यर्थः; जाठराग्निशरीरतया वैश्वानरस्य परमात्मन उपासनं ह्यत्रोपदिश्यते-५"अयमग्निर्वैश्वानरः पुरुषेऽन्तः प्रतिष्ठितः” इत्यादौ। कथमवगम्यत इति चेत्-असम्भवात् ; केवलजाठराग्नेस्त्रैलोक्यशरीरत्वाद्यसम्भवात् । पुरुषमपि चैनमधीयते; च शब्दः प्रसिद्धौ , वाजिनस्तत्रैव ६ “स एषोऽग्निर्वैश्वानरो यत्पुरुषः" इति ए. नं वैश्वानरं पुरुषमपि ह्यधीयते । पुरुषश्च परमात्मैव ७"पुरुष एवेदं सर्वम्" "पुरुषान्न परं किञ्चित्" इत्यादिषु प्रसिद्धः ॥ २७॥ अत एव न देवता भूतश्च । १।२।२८॥ यतत्रैलोक्यशरीरोऽसौ वैश्वानरः, यतश्च निरुपाधिकपुरुषशब्दनिर्दिधः; अत एव नानपाख्या देवता, महाभूततृतीयश्च वैश्वानरश्शनीयः॥२८॥ साक्षादप्याविरोधं जैमिनिः।१।२।२९॥ अग्निशरीरतया वैश्वानरस्योपासनार्थमग्निशब्दसामानाधिकरण्यनिर्देश इ. स्युक्तम् । विश्वेषां नराणां नेतृत्वादिना सम्बन्धेन यथा वैश्वानरशब्दः परमात्मनि वर्तते, तथैवाग्निशब्दस्यापि अग्रनयनादिना योगेन साक्षात्परमात्मनि वृ सौ न कश्चिद्विरोध इति जैमिनिराचार्यों मन्यते ॥२९॥ १॥ २॥ १, छा. ५-१८-२॥ ४॥ ५॥ ६॥ ७. पुरुषसू. २॥ ८. कठो. ३. ११॥ - - For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy