SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीशारीरकमीमांसाभाष्ये [म.१. सार्वझ्यसत्यसङ्कल्पत्वादिकमुक्तम्। सर्वज्ञात्सत्यसङ्कल्पात्परमाणोऽक्षरादेतत् कार्याकारं ब्रह्म नामरूपविभक्तं भोक्तृभोग्यरूपं च जायते। १"तदेतत्सत्यम्" इति परस्य ब्रह्मणो निरुपाधिकसत्यत्वमुच्यते । १"मन्त्रेषु कर्माणि कवयो यान्यपश्यस्तानि त्रेतायां बहुधा सन्ततानि । तान्याचरत नियतं सत्यकामाः" इति सार्वझ्यसत्यसङ्कल्पत्वादिकल्याणगुणाकरमक्षरं पुरुषं स्वतस्सत्यं कामयमानास्तत्माप्तये फलान्तरेभ्यो विरक्ता ऋग्यजुम्सामावसु कविभिदृष्टानि वर्णाश्रमोचितानि तेताग्निषु बहुधा सन्ततानि कर्माण्याचरतेति १"एष वः पन्थाः" इत्यारभ्य २"एष वः पुण्यस्सुकृतो ब्रह्मलोकः" इत्यन्तेन कर्मानुष्ठानप्रकार, श्रुतिस्मृतिचोदितेषु कर्मखेकतरकर्मवैधुर्येऽपीतरेषामनुष्ठितानामपि निष्फलत्वम् , अयथानुष्ठितस्य चाननुष्ठितसमत्वम् अभिधाय ३"प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म । एतच्छ्रेयो येऽभिनन्दन्ति मूढा जरामृत्यू ते पुनरेवापि यन्ति"इत्यादिना फलाभिसन्धिपूर्वकत्वेन ज्ञानविधुरतया चावरं कर्माचरतां पुनरावृत्तिमुक्त्वा ४"तपश्श्रद्धे ये ह्युपवसन्ति" इत्यादिना पुनरपि फलाभिसन्धिरहितं ज्ञानिनानुष्ठितं कर्म ब्रह्मप्रासये भवतीति प्रशस्य ५"परीक्ष्य लोकान्" इत्यादिना केवलकर्मफलेषु विरक्तस्य यथोदितकर्मानुगृहीतं ब्रह्मप्राप्त्युपायभूतं ज्ञानं जिज्ञासमानस्य च आचार्योपसदनं विधाय"तदेतत्सत्यं यथा सुदीप्तात्"इत्यादिना "सोऽविद्यापन्थिविकिरतीह सोम्य" इत्यन्तेन पूर्वोक्तस्याक्षरस्य भूतयोनेः परस्य ब्रह्मणः परमपुरुषस्यानुक्तैस्वरूपगुणैस्सह सर्वभूतान्तरात्मतया विश्वशरीरत्वेन विश्वरूपत्वम् , तस्माद्विश्वसृष्टिं च विस्पष्टमभिधाय ८"आविस्सभि - - - १. मुण्ड. १-२-१. २. मुण्ड, १-२-६॥ १. मुण्डा, १-२-७॥ ४. मुण्ड, १-२-११॥ ५. मुण्ड. १-२-१२॥ ६.मुण्ड. २.१-१॥ ७. मुण्ड. २-१-१०॥८. मुण्ड,२-२-१॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy