SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६० वेदान्तसारे स्मार्त प्रधानम् । शारीरः जीवः। स्माते च शारीरश्च नान्तर्यामी, अतद्धर्माभिलापात्-तयोरसम्भावितधर्माभिलापात्। स्वभावत एव सर्वस्य द्रष्टुत्वम् , सर्वस्य नियन्तृत्वम्, सर्वस्याऽत्मत्वम् , स्वत एवामृतत्वं च तयोर्न सम्भावनागन्धमर्हति । एतदुक्तं भवति-यथा स्मार्तमचेतनं सर्वज्ञत्वनियन्तृत्वसर्वात्मत्वादिकं नार्हति, तथा जीवोऽपि, अतद्धमत्वात्-इति ॥ अमीषां गुणानां परमात्मन्यन्वयः, प्रत्यगात्मनि व्यतिरेकश्च सूत्रद्वयेन दर्शितः ॥ २० ॥ निरपेक्षं च हेत्वन्तरमाहउभयेऽपि हि भेदेनैनमधीयते। १।२॥२१॥ उभये-माध्यन्दिनाः काण्वाश्च, अन्तर्यामिणो नियाम्यत्वेन वागादिभिरचेतनस्समम् एनं शारीरमपि विभज्याधीयते-१“य आत्मनि तिष्ठनात्मनोऽन्तरो यमात्मा न वेद यस्याऽत्मा शरीरं य आत्मानमन्तरो यमयति स त आत्माऽन्तर्याम्यमृतः" इति माध्यन्दिनाः, २" यो विज्ञाने तिष्ठन्" इत्यादि च काण्वाः,परमात्मनियाम्यतया तस्माद्विलक्षणत्वेनैनमधीयत इत्यर्थः। अतोऽन्तर्यामी प्रत्यगात्मनो विलक्षणोऽपहतपाप्मा परमात्मा नारायण इति सिद्धम् ॥ २१ ॥ इति श्रीशारीरकमीमांसाभाष्ये अन्तर्याम्यधिकरणम् ॥ ४ ॥ --(श्रीवेदान्तसारे अन्तर्याम्यधिकरणम् ॥४॥)...अन्तर्याम्यधिदैवाधिलोकादिषु तद्धर्मव्यप देशात्। ॥२॥१९॥ १..५-७-२२ ।। २.अ. ५-७-२२. माध्यन्दिनपाठः।। For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy