SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. २.] सर्वत्रप्रसिद्ध्यधिकरणम्. २३३ प्युपपद्यते । तदयमर्थः-अयं जीवात्मा स्वतोऽपरिच्छिन्नस्वरूपत्वेन ब्रमभूतस्सन्ननाद्यविद्यया देवतियङ्मनुष्यस्थावरात्मनाऽवतिष्ठते-इति ॥ अत्र प्रतिविधीयते सर्वत्र प्रसिद्धोपदेशात्-सर्वत्र-१"सर्व खल्विदम्" इति निर्दिष्टे सर्वस्मिन् जगति ब्रह्मशब्देन तदात्मतया विधीयमानं परं ब्रह्मैव न प्रत्यगात्मा । कुतः? प्रसिद्धोपदेशात्, १"तज्जलान्" इति हेतुतः 'सर्व खल्विदं ब्रह्मे'इति प्रसिद्धवदुपदेशात्। ब्रह्मणो जातत्वाब्रह्मणि लीनत्वाब्रह्माधीनजीवनत्वाच हेतोब्रह्मात्मकं सर्व खल्विदं जगदित्युक्ते यस्माज्जगज्जन्मस्थितिलया वेदान्तेषु प्रसिद्धास्तदेवान ब्रह्मेति प्रतीयते । तच्च परमेव ब्रह्म तथाहि २" यतो वा इमानि भूतानि जायन्ते। येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासख । तहम" इत्युपक्रम्य ३“आनन्दो ब्रह्मेति व्यजानात् । आनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते" इत्यादिना पूर्वानुवाकप्रतिपादितानवधिकाति शयानन्दयोगिनो विपश्चितः परस्माद्ब्रह्मण एव जगदुत्पत्तिस्थितिलया निर्दिश्यन्ते तथा ४“स कारणं करणाधिपाधिपो नचास्य कश्चिजनिता नचाधिपः" इवि करणाधिपस्य जीवस्याधिपः परं ब्रह्मैव कारणं व्यपदिश्यते । एवं सर्वत्र परस्यैव ब्रह्मणः कारणत्वं प्रसिद्धम् । अतः परब्रह्मणो जातत्वात्तस्मिन् प्रलीनत्वात्तेन प्राणनात्तदात्मकतया तादात्म्यमुपपन्नम्। अतस्सर्वप्रकारं सर्वशरीरं सर्वात्मभूतं परं ब्रह्म शान्तो भूत्वोपासीतेति श्रुतिरेव परस्य ब्रह्मणस्सर्वात्मकत्वमुपपाय तस्योपासनमुपदिशति । परं ब्रह्म हि कारणावस्थं कार्यावस्थं सूक्ष्मस्थूलचिदचिद्वस्तुश रीरतया सर्वदा सर्वात्मभूतम् । एवम्भूततादात्म्यस्य प्रतिपादने परस्य ब्रह्मणस्सकलहेयप्रत्यनीककल्याणगुणाकरत्वं न विरुध्यते, प्रकारभूत | ३. ते. भृ. ६॥ १. छा. ३.१४.२ ॥ २. है. भ. १॥ . 30 For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy