SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२० श्रीशारीरकमीमांसाभाष्ये [म १. ____१"पादोऽस्य सर्वा भूतानि । त्रिपादस्यामृतन्दिवि" इति पूर्ववाक्योदितं परं ब्रह्मैवास्तु,तथापि २ "अथ यदतः परो दिवो ज्योतिः"इति द्युसम्बन्धमात्रेण नेह तत्प्रत्यभिज्ञायते ; तत्र चात्र च उपदेशप्रकारभेदात् । तत्र हि 'दिवि ' इति द्यौस्सप्तम्या निर्दिश्यते । इह च 'दिवः परो ज्योतिः' इति पञ्चम्या । ततो न प्रतिसन्धानमिति चेन्न; उभयस्मिन्नपि व्यपदेशे उपरिस्थितिरूपार्थक्येन प्रतिसन्धानाविरोधात् । यथा 'वृक्षाग्रे श्येनः, वृक्षापात्परतश्श्यनः' इति॥ २८॥ इति श्रीवेदान्तदीपे ज्योतिरधिकरणम् ।। १० ॥ ----(श्रीशारीरकमीमांसाभाष्ये इन्द्रप्राणाधिकरणम् ॥११॥)--- निरतिशयदीप्तियुक्तं ज्योतिश्शब्दाभिधेयं प्रसिद्धवनिर्दिष्टं परमपुरुष एवेत्युक्तम् । इदानीं कारणत्वव्याप्तामृतत्वप्राप्त्युपायतयोपास्यत्वेन श्रुत इन्द्रमाणादिशब्दाभिधेयोऽपि परमपुरुष एवेत्याह प्राणस्तथाऽनुगमात् । १।१॥२९॥ कौषीतकीब्राह्मणे प्रतर्दनविद्यायां ३"प्रतर्दनो ह वै दैवोदासिरिन्द्रस्य प्रियं धामोपजगाम युद्धेन च पौरुषेण च"इत्यारभ्य३ "वरं वृणीष्व" इति वक्तारमिन्द्रं प्रति ३" त्वमेव मे परं वृणीष्व यं त्वं मनुष्याय हिततम मन्यसे" इति प्रतर्दनेनोक्ते ३"स होवाच प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपास्व"इति श्रूयते। तत्र संशयः किमयं हिततमोपासनकर्मतयेन्द्रप्राणशब्दनिर्दिष्टो जीव एव; उत तदतिरिक्तः परमात्मा-इति । किं युक्तम् , जीव एवेति । कुतः? इन्द्रशब्दस्य जीवविशेष एव प्रसिद्धः, तत्समानाधिकरणस्य प्राणशब्दस्यापि तत्रैव वृत्तेः। अयमिन्द्राभिधानो जीवः प्रतर्दनेन३ " त्वमेव मे वरं वृणीष्व यं त्वं मनुष्याय हिततमं मन्यसे" इत्युक्तः ३" मामुपास्व" इति स्वात्मोपासनं हिततममुपदिदेश। हिततमश्चामृतत्वप्राप्त्युपाय एव । जगत्कारणोपासनस्यैवामृतत्वप्राप्तिहेतुता १. छा. ३-१२-६॥ ३. कौषीतक्यां ३. १॥ २. छा. ३-१३-७॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy