SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] ईक्षत्यधिकरणम् . १६३ यदि प्रधानमेव कारणं सच्छब्दाभिहितं भवेत् तदा मुमुक्षोश्श्वेतकेतोस्तदात्मकत्वं मोक्षविरोधित्वादेयत्वेनैवोपदेश्यं स्यात् । न च तक्रियते, प्रत्युतोपादेयत्वेनैवर "तत्वमसि"३"तस्य तावदेव चिरम्" इत्युपदिश्यते ॥ ८॥ इतश्च न प्रधानम् प्रतिज्ञाविरोधात्। १।१॥९॥ प्रधानकारणत्वे प्रतिज्ञाविरोधश्च भवति । वाक्योपक्रमे ोकविज्ञानेन सर्वविज्ञानं प्रतिज्ञातम् । तच्च कार्यकारणयोरनन्यत्वेन कारणभूतसद्विज्ञानात्तत्कार्यभूतचेतनाचेतनप्रपञ्चस्य ज्ञाततयैवोपपादनीयम् । तत्तु प्रधानकारणत्वे चेतनवर्गस्य प्रधानकार्यत्वाभावात प्रधानविज्ञानेन चेतनवर्गविज्ञानासिद्धेविरुध्यते ॥९॥ इतश्च न प्रधानम् -- स्वाप्ययात्।१।१।१०॥ तदेव सच्छब्दवाच्यं प्रकृत्याह ४"स्वमान्तं मे सोम्य विजानीहीति यत्रतत्पुरुषस्वपिति नाम सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति तस्मादेनं स्वपितीत्याचक्षते खं ह्यपीतो भवति" इति सुषुप्तं जीवं सता सम्पन्न स्वमपीतः --स्वस्मिन् प्रलीनः इति व्यपदिशति । प्रलयश्च-स्वकारणे लयः। न चाचेतनं प्रधानं चेतनस्य जीवस्य कारणंभवितुमर्हति । स्वमपीतो भवति --आत्मानमेव जीवोऽपीतो भवतीत्यर्थः । चिद्वस्तुशरीरकं तदात्मभूतं ब्रह्मैव ६जीवशब्देनाभिधीयत इति नामरूपव्याकरणश्रुत्योक्तम्। तज्जीवशब्दाभिधेयं ब्रह्म सुषुप्तिकालेऽपि प्रलयकाल १. भिहितं-तदा. पा॥ ४. छां-६. प्र-८. ख-१॥ २. छां-६. प्र-८. ख-७॥ ५. भवति, पा॥ ६. जीवशब्देनाप्यभिधी. पा॥ ३. छां-६. प्र-१४. ख-२॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy