SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] समन्वयाधिकरणम्. __अपिच उत्पत्तिप्राप्तिविकृतिसंस्कृतिरूपेण चतुर्विधं हि साध्यत्वं मोक्षस्य न संभवति । न तावदुत्पाद्यः, मोक्षस्य ब्रह्मस्वरूपत्वेन नित्यत्वात् । नापि प्राप्यः, आत्मस्वरूपत्वेन ब्रह्मणो नित्यप्राप्तत्वात् । नापि विकार्यः,दध्यादिवदनित्यत्वप्रसङ्गादेव । नापि संस्कार्यः; संस्कारो हि दोषापनयनेन वा गुणाधानेन वा साधयति । न तावदोषापनयनेन, नित्यशुद्धत्वाद्ब्रह्मणः । नाप्यतिशयाधानेन, अनाधेयातिशयस्वरूपत्वात् । नित्यनिर्विकारत्वेन स्वाश्रयायाः पराश्रयायाश्च क्रियाया अविषयतया न निर्घर्षणेनाऽदर्शादिवदपि संस्कार्यत्वम्।न च देहस्थया स्नानादिक्रियया आत्मा संस्क्रियते ; किं त्वविद्यागृहीतस्तत्सङ्गतोऽहङ्कर्ता । तत्फलानुभवोऽपि तस्यैव। न चाहङ्कतैवाऽत्मा, तत्साक्षित्वात् । तथा च मन्त्रवर्णः-२"तयोरन्यः पिप्पलं स्वादत्ति अनश्नन्नन्यो अभिचाकशीति" इति; ३“आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः"४"एको देवस्सर्वभूतेषु गूढस्सर्वव्यापी सर्वभूतान्तरात्मा । कर्माध्यक्षस्सर्वभूताधिवासस्साक्षी चेता केवलो निर्गुणश्च" ५“सपर्यगाच्छुक्रमकामयव्रणमस्त्राविरं शुद्धमपापविद्धम्" इति च । अविद्यागृहीतादहङ्कर्तुरात्मस्वरूपमनाधेयातिशयं नित्यशुद्धं निर्विकारं निष्कृष्यते । तस्मादात्मस्वरूपत्वेन न साध्यो मोक्षः॥ यद्येवं किं वाक्यार्थज्ञानेन क्रियत इति चेत् -मोक्षप्रतिबन्धनित्तिमात्रमिति ब्रूमः।तथा च श्रुतयः ..७ "त्वं हि नः पिता योऽस्माकमविद्यायाः परं पारं तारयसि"इति, श्रुतं ह्येवमेव भगवदृशेभ्यस्तरति शोकमात्मविदिति सोऽहं भगवश्शोचामि तं मा भगवान् शोकस्य पारं तारयतु"९"तस्मै मृदितकषायाय तमसः पारं दर्शयति भगवान् सनत्कुमारः" इत्याद्याः। तस्मानित्यस्यैव मोक्षस्य प्रतिबन्धनित्तिर्वाक्यार्थज्ञानेन क्रि १.दोषापनयनेन गुणाधानेन वा.पा।। २.मुण्ड. ३-मु. १-ख. १॥ ३. कठ. ३. वल्ली. ४॥ ४. श्वे, ६-अ. ११॥ ५. ईशा. ८॥ ६.अस्थाविरं. पा॥ ७. प्रश्न. ६-प्रश्न ८॥ ८. छा. ७-प्र. १-ख ३॥ ९. छा. ७-प्र. २६. ख. २।। 19 For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy