________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११४ वेदान्तदीपे
[अ. १. अभूमिभूमिर्यो नतजनदृशामादिपुरुषो मनस्तत्पादाब्जे परिचरण सक्तं भवतु मे ॥ प्रणम्य शिरसाऽऽचार्यास्तदादिष्टेन वर्त्मना।
ब्रह्मसूत्रपदान्तस्स्थवेदान्तार्थः प्रकाश्यते ॥ अत्रेयमेव हि वेदविदा प्रक्रिया-अचिद्वस्तुनः स्वरूपतः स्वभावतश्चात्यन्तविलक्षणः तदात्मभूतः चेतनः प्रत्यगात्मा। तस्माद्बद्धान्मुक्तान्नित्याञ्च निखिलहेयप्रत्यनीकतया, कल्याणगुणैकतानतया च, सर्वावस्थचिदचियापकतया, धारकतया, नियन्तृतया, शेषितया च अत्यन्तविलक्षणः परमात्मा । यथोक्तं भगवता-१" द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।क्षरस्सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते॥ उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः। यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः॥ यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः" इति। श्रुतिश्व-२"प्रधानक्षेत्रक्षपतिगुणेशः" ३"पतिं विश्वस्याऽत्मेश्वरम्"४'अन्तर्बहिश्च तत्सर्व व्याप्य नारायणः स्थितः” इत्यादिका । कूटस्थः - मुक्तस्वरूपम् , ५“ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते । सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम्" इत्यादिव्यपदेशात् । सूत्रकारश्चैवमेव वदति-६"नेतरोऽनुपपत्तेः""भेदव्यपदेशात्"८"अनुपपत्तेस्तु न शारीरः" ९"कर्मकर्तृव्यपदेशाच"१०"शब्दविशेषात्” ११“सम्भोगप्राप्तिरितिचेन्न वैशेष्यात्"१२ "न च स्मार्तमतद्धर्माभिलापाच्छारीरश्च"१३ "उभयेऽपि हि भेदेनैनमधीयते"१४“विशेषणभेदव्यपदेशाभ्यां च नेतरौ"१५"मुक्तोपसृप्यव्यपदेशाच"१६"स्थित्यदनाभ्यां च"१७"इतरपरामर्शात्स इतिचेन्नासम्भवात्"
* युक्तम् . पा. १. गी. १५. अ. १६. १७, १८-श्लो. २.श्वे.६-१६, ३.तै-नारायणीये.१६- अनु. ४. तै नारायणाये. ११.अनु. ५. गी. १२. अ. ३-श्लो. ६. शारी. १-१-१७. ७. शारी १-३-४. ८. शारी.१-२-३. ९. शारी. १-२. ४.
१०. शारी. १-२. ५. ११. शारी, १-२ ८. १२, शारी १-२. २०. १३. शारी, १-२-२१. १४. शारी. १-२.२३. १५. शारी. १-३-२. १६. शारी. १-३-६. १७, शारी. १.३.१७.
For Private And Personal Use Only