SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ११२ शारीरकमीमांसाभाष्ये [अ. १. रुषात्फलसिद्धिश्चेति १" फलमत उपपत्तेः" इत्यत्र प्रतिपादयिष्यते । अतो वेदान्ताः परिनिष्पन्नं परं ब्रह्म बोधयन्तीति ब्रह्मोपासनफलानन्त्यं स्थिरत्वं च सिद्धम् । चातुर्मास्यादिकर्मस्वपि केवलस्य कर्मणः क्षयिफलत्वोपदेशादक्षयफलश्रवणं २" वायुश्चात्नरिक्षं चैतदमृतम् " इत्यादिवदापेक्षिकं मन्तव्यम् ॥ अतः केवलानां कर्मणामल्पास्थिरफलत्वात्, ब्रह्मज्ञानस्य चान न्तस्थिरफलत्वात्तन्निर्णयफलो ब्रह्मविचारारम्भो युक्त इति स्थितम् || इति श्रीभाष्ये जिज्ञासाधिकरणम् ॥ १ ॥ श्रीमते रामानुजाय नम: अथ वेदान्तसारः. Acharya Shri Kailassagarsuri Gyanmandir समस्तचिदचिद्वस्तुशरीरायाखिलात्मने । श्रीमते निर्मलानन्दोदन्वते विष्णवे नमः ॥ परमपुरुषप्रसादात् वेदान्तसार उद्धियते अथातो ब्रह्मजिज्ञासा ॥ १ ॥ अत्रायमथशब्दः, आनन्तर्ये वर्तते; अतश्शब्दशिरस्कत्वात् । ३ अतश्शब्दश्च पूर्ववृत्तस्य हेतुभावे । पूर्ववृत्तञ्च कर्मज्ञानमिति विज्ञायते । आरिप्सितस्य ब्रह्मज्ञानस्य वेदार्थविचारैकदेशत्वात्, अधीतवेदस्य हि पुरुषस्य कर्मप्रतिपादनोपक्रमत्वात्, वेदानां कर्मविचारः प्रथमं कार्य इति ४" अथातो धर्मजिज्ञासा" इत्युतम् । कर्मणाञ्च प्रकृतिविकृतिरूपाणां धर्मार्थकामरूपपुरुषार्थसाधनतानिश्चयः, १. शारी. सु. ३-२-३७, २. यू. उप. ४. अ. ३. बा. ३. वा. | ३. अतरशब्द: पूर्व. पा. ४. पूर्वमीमांसासू. १-१-१. For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy