________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पा. १.]
जिज्ञासाधिकरणम्.
ञ्जते । प्रकारान्तरेणापि शब्दार्थसबन्धावधारणं सुशकम् - केनचित्पुरुषेण हस्तचेष्टादिना 'पिता ते सुखमास्ते' इति देवदत्ताय ज्ञापयेति प्रेषितः कश्चित् तज्ज्ञापने प्रवृत्तः 'पिता ते सुखमास्ते' इति शब्दं प्रयुङ्क्ते । पार्श्वस्थोऽन्यो व्युत्पित्सुर्मूकवचेष्टाविशेषज्ञस्तज्ज्ञापने प्रवृत्तमिमं ज्ञात्वाऽनुगतस्तज्ज्ञापनाय प्रयुक्तमिमं शब्दं श्रुत्वा 'अयं शब्दस्तदर्थबुद्धिहेतुः ' इति निश्चिनोति इति कार्यार्थ एव व्युत्पत्तिरिति निर्बन्धो निर्निबन्धनः। अतो वेदान्ताः परिनिष्पन्नं परं ब्रह्म, तदुपासनं चापरिमितफलं बोधयन्तीति तन्निर्णयफलो ब्रह्मविचारः कर्तव्यः ॥
कार्यार्थत्वेऽपि वेदस्य ब्रह्मविचारः कर्तव्य एव । कथम् ; "आत्मा वा अरे द्रष्टव्य श्रोतव्यो मन्तव्यो निदिध्यासितव्यः " २ " सोऽन्वेष्टव्यस्स विजिज्ञासितव्यः " ३" विज्ञाय प्रज्ञां कुर्वीत " ४ " दहरोऽस्मिन्नन्तर आका - शस्तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यम् " ५" तत्त्रापि दहं गगनं विशोकस्तस्मिन्यदन्तस्तदुपासितव्यम्" इत्यादिभिः प्रतिपन्नोपासनविषयकार्याधिकृतफलत्वेन ६" ब्रह्मविदाप्नोति परम्" इत्यादिभिर्बह्मप्राप्तिश्रूयतइति ब्रह्मस्वरूपतद्विशेषणानां दुःखासंभिन्नदेशविशेषरूपस्वर्गादिवत्, रात्रिसत्रप्रतिष्ठादिवत्, अपगोरणशतयातना साध्यसाधनभाववच्च, कार्योपयोगितयैव सिद्धेः ॥
'गामानय' इत्यादिष्वपि वाक्येषु न कार्यार्थे व्युत्पत्तिः ; भवदभिमतकार्यस्य दुर्निरूपत्वात् । कृतिभावभावि कृत्युद्देश्यं हि भवतः कार्यम् । कृत्युद्देश्यत्वं च कृतिकर्मत्वम् । कृतिकर्मत्वंच कृत्या प्राप्तुमिष्टतमत्वम् । इष्टतमं च सुखं वर्तमानदुःखस्य तन्निवृत्तिर्वा । तत्रेष्टसुखादिना पुरुषेण स्वप्रयत्नादृते यदि तदसिद्धिः प्रतीता, ततः प्रयत्नेच्छुः प्र
१. बृ ४. अ. ४. बा. ५; ६. अ. ५ बा.६.
२. छा-८. प्र. ७. ख. १.
३. ब. १-अ ४ - प्रा. २१.
Acharya Shri Kailassagarsuri Gyanmandir
४ छा. ८. प्र. १ - ख. १.
५. तै- नारायणे. १० - अनु. २३. ६. ते आन १ भ. १०
For Private And Personal Use Only
१०९