________________
Shri Mahavir Jain Aradhana Kendra
१००
शारीरकमीमांसाभाष्ये
[ अ. १.
१" पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति" २ “अजामेकां लोहित शुक्लकृष्णां बहीं प्रजां जनयन्तीं सरूपाम् । अजो होको जुषमाitsशेते जहात्येनां भुक्तभोगामजोऽन्यः " ३" समाने वृक्षे पुरुषो निमग्नोsनीशया शोचति मुह्यमानः जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः" इत्याद्याः ॥ स्मृतावपि -
www.kobatirth.org
१. श्वे. १. अ. ६.
तै.
२.
४" अहङ्कारइतीयं मे भिन्ना प्रकृतिरष्टधा ।। अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् । जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥ " ५ " सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् । कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् || प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः । भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशाद ।। " ६" मयाऽध्यक्षेण प्रकृतिस्तूयते सचराचरम् । हेतुनाऽनेन कौन्तेय जगद्धि परिवर्तते ।। " ७" प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि । " " मम योनिर्महद्ब्रह्म तस्मिन् गर्भ दधाम्यहम् | सम्भवस्सर्वभूतानां ततो भवति भारत ।। " इति ॥
जगद्योनिभूतं महत् ब्रह्म मदीयं प्रकृत्याख्यं भूतसूक्ष्ममचिद्वस्तु यत् ; तस्मिंश्चेतनाख्यं गर्भं यत्संयोजयामि, ततो मत्कृताच्चिदचित्संसर्गाद्देवादिस्थावरान्तानामचिन्मिश्राणां सर्वभूतानां सम्भवो भवतीत्यर्थः ॥
Acharya Shri Kailassagarsuri Gyanmandir
६. प्र. नारायणे. १०. अनु. ५.
३. वे. ४, अ. ७.
४. नी. ७. अ. ४, ५. श्रो.
५. मी. ९. अ. ७, ८. श्री.
६. मी. ९. अ. १०. लो.
७. गी. १३. अ. १९. लो.
८. गी. १४. अ. ३. श्रो.
For Private And Personal Use Only