SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org तथाहि [अ. १. जगति चिदशो वाङ्मनसगोचर स्वसंवेद्यस्वरूपभेदो ज्ञानैकाकारतया अस्पृष्टप्राकृतभेदोऽविनाशित्वेनास्तिशब्दवाच्यः । अचिदशस्तु चिर्देशकनिमित्तपरिणामभेदो विनाशीति नास्तिशब्दाभिधेयः । उभयं तु परब्रह्मभूतवासुदेवशरीरतया तदात्मकमित्येतद्रूपं संक्षेपेणात्राभिहितम् ।। शारीरकमीमांसाभाष्ये 244 यदम्बु वैष्णवः कायस्ततो विप्र वसुन्धरा । पद्माकारा समुद्धता पर्वताब्ध्यादिसंयुता ॥ " Acharya Shri Kailassagarsuri Gyanmandir इत्यम्बुनो विष्णोश्शरीरत्वेनाम्बुपरिणामभूतं ब्रह्माण्डमपि विष्णोः कायः, तस्य च विष्णुरात्मतेि सकलश्रुतिगततादात्म्योपदेशोपबृंहणरूपस्य सामानाधिकरण्यस्य " ज्योतींषि विष्णुः " इत्यारभ्य वक्ष्यमाणस्य शरीरात्मभावएव निबन्धनमित्याहुः । अस्मिन् शास्त्रे पूर्वमध्ये - तदसकृदुक्तम् २" तानि सर्वाणि तद्वपुः ३" तत्सर्वं वै हरेस्तनुः " ४" स एव सर्वभूतात्मा विश्वरूपो यतोऽव्ययः" इति। तदिदं शरीरात्मभावायत्तं तादात्म्यं सामानाधिकरण्येन व्यपदिश्यते "ज्योतींषि विष्णुः" इति । अत्रास्त्यात्मकं नास्त्यात्मकं च जगदन्तर्गतं वस्तु विष्णोः कायतया विष्ण्वात्मकमित्युक्तम् । इदमस्त्यात्मकम् इदं नास्त्यात्मकम्, अस्यच नास्त्यात्मकत्वे हेतुरयमित्याह – “ज्ञानस्वरूपो भगवान्यतोऽसौ " इति। अशेषक्षेत्रज्ञात्मनाऽवस्थितस्य भगवतो ज्ञानमेव स्वाभाविकं रूपम्। न देवमनुष्यादिवस्तुरूपम् | यत एवम् तत एवाचिद्रपदेवमनुष्यशैलाब्धिधरादयश्च तद्विज्ञानविजृम्भिताः ; तस्य ज्ञानैकाकारस्य सतो देवाद्याकारेण स्वात्मवैविध्यानुसंधानमूलाः देवाद्याकारानुसंधानमूलकर्ममूला इत्यर्थः। यतश्चाचिद्वस्तु क्षेत्रज्ञकर्मानुगुणपरिणामास्पदं, ततस्तन्नास्तिशब्दाभिधेयम्, इतरदस्तिशब्दाभिधेयमित्यर्थादुक्तं भवति । तदेव वि " " ४. वि. पु. अं १. अ. २. श्रो, ६९. १. वि. पु. अं. २. अ. १२. लो. ३७. २. ३. वि. पु. १. अ २२, को.८६.३८. " For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy